← Ayodhyā Kāṇḍa

Sarga 44: Sumitrā Consoles Kausalyā

सुमित्राश्वासनम्

sumitrāśvāsanam — word-by-word gloss for all 31 shlokas.

Jump to a shloka · 31 in this sarga

Page 2 of 431 shlokas in this sarga (verified max-across-sources)
Shloka 44.11Word-by-word available

ददौ चास्त्राणि दिव्यानि यस्मै ब्रह्मा महौजसे । दानवेन्द्रं हतं दृष्ट्वा तिमिध्वजसुतं रणे ।।2.44.11।।

Meaning

Shloka 44.12Word-by-word available

स शूरः पुरुषव्याघ्रः स्वबाहुबलमाश्रितः । असन्त्रस्तोप्यरण्यस्थो वेश्मनीव निवत्स्यति ।।2.44.12।।

Meaning

Shloka 44.13Word-by-word available

यस्येषुपदमासाद्य विनाशं यान्ति शत्रवः । कथं न पृथिवी तस्य शासने स्थातुमर्हति ।।2.44.13।।

Meaning

Shloka 44.14Word-by-word available

या श्रीः शौर्यं च रामस्य या च कल्याणसत्त्वता । निवृत्तारण्यवासः स क्षिप्रं राज्यमवाप्स्यति ।।2.44.14।।

Meaning

Shloka 44.15Word-by-word available

सूर्यस्यापि भवेत्सूर्यो ह्यग्नेरग्निः प्रभोः प्रभुः । श्रियः श्रीश्च भवेदग्र्या कीर्तिः कीर्त्याः क्षमाक्षमा ।।2.44.15।।

Meaning

Shloka 44.16Word-by-word available

दैवतं दैवतानां च भूतानां भूतसत्तमः । तस्य के ह्यगुणा देवि राष्ट्रे वाऽप्यथवा पुरे ।।2.44.16।।

Meaning

Shloka 44.17Word-by-word available

पृथिव्या सह वैदेह्या श्रिया च पुरुषर्षभः । क्षिप्रं तिसृभिरेताभिः सह रामोऽभिषेक्ष्यते ।।2.44.17।।

Meaning

Shloka 44.18Word-by-word available

दुःखजं विसृजन्त्यास्रं निष्क्रामन्तमुदीक्ष्य यम् । अयोध्यायां जनाः सर्वे शोकवेगसमाहताः ।।2.44.18।।

Meaning

Shloka 44.19Word-by-word available

कुशचीरधरं देवं गच्छन्तमपराजितम् । सीतेवानुगता लक्ष्मीस्तस्य किंनाम दुर्लभम् ।।2.44.19।।

Meaning

Shloka 44.20Word-by-word available

धनुर्ग्रहवरो यस्य बाणखड्गास्त्रभृत्स्वयम् । लक्ष्मणो व्रजति ह्यग्रे तस्य किंनाम दुर्लभम् ।।2.44.20।।

Meaning