Sarga 45: The Citizens' Entreaty

पौरयाचनम्

paurayācanam — word-by-word gloss for all 33 shlokas.

Page 1 of 433 shlokas in this sarga (verified max-across-sources)
Shloka 45.1Word-by-word available

अनुरक्ता महात्मानं रामं सत्यपराक्रमम् । अनुजग्मुः प्रयान्तं तं वनवासाय मानवाः ।।2.45.1।।

Meaning

Shloka 45.2Word-by-word available

निवर्तितेऽपि च बलात्सुहृद्वर्गे च राजनि । नैव ते संन्यवर्तन्त रामस्यानुगता रथम् ।।2.45.2।।

Meaning

Shloka 45.3Word-by-word available

अयोध्यानिलयानां हि पुरुषाणां महायशाः । बभूव गुणसम्पन्नः पूर्णचन्द्र इव प्रियः ।।2.45.3।।

Meaning

Shloka 45.4Word-by-word available

स याच्यमानः काकुत्स्थः स्वाभिः प्रकृतिभिस्तदा । कुर्वाणः पितरं सत्यं वनमेवान्वपद्यत ।।2.45.4।।

Meaning

Shloka 45.5Word-by-word available

अवेक्षमाणः सस्नेहं चक्षुषा प्रपिबन्निव । उवाच रामः स्नेहेन ताः प्रजास्स्वाः प्रजा इव ।।2.45.5।।

Meaning

Shloka 45.6Word-by-word available

या प्रीतिर्बहुमानश्च मय्ययोध्यानिवासिनाम् । मत्प्रियार्थं विशेषेण भरते सा निवेश्यताम् ।।2.45.6।।

Meaning

Shloka 45.7Word-by-word available

स हि कल्याणचारित्रः कैकेय्यानन्दवर्धनः । करिष्यति यथावद्वः प्रियाणि च हितानि च ।।2.45.7।।

Meaning

Shloka 45.8Word-by-word available

ज्ञानवृद्धो वयोबालो मृदुर्वीर्यगुणान्वितः । अनुरूपः स वो भर्ता भविष्यति भयापहः ।।2.45.8।।

Meaning

Shloka 45.9Word-by-word available

स हि राजगुणैर्युक्तो युवराजः समीक्षितः । अपि चापि मया शिष्टैः कार्यं वो भर्तृशासनम् ।।2.45.9।।

Meaning

Shloka 45.10Word-by-word available

न च तप्येद्यथा चासौ वनवासं गते मयि । महाराजस्तथा कार्यो मम प्रियचिकीर्षया ।।2.45.10।।

Meaning