← Ayodhyā Kāṇḍa

Sarga 45: The Citizens' Entreaty

पौरयाचनम्

paurayācanam — word-by-word gloss for all 33 shlokas.

Page 2 of 433 shlokas in this sarga (verified max-across-sources)
Shloka 45.11Word-by-word available

यथायथा दाशरथिर्धर्म एव स्थितोऽभवत् । तथातथा प्रकृतयो रामं पतिमकामयन् ।।2.45.11।।

Meaning

Shloka 45.12Word-by-word available

बाष्पेण पिहितं दीनं रामः सौमित्रिणा सह । चकर्षेव गुणैर्बद्ध्वा जनं पुनरिवासिनम् ।।2.45.12।।

Meaning

Shloka 45.13Word-by-word available

ते द्विजास्त्रिविधं वृद्धाः ज्ञानेन वयसौजसा । वयः प्रकम्पशिरसो दूरादूचुरिदं वचः ।।2.45.13।।

Meaning

Shloka 45.14Word-by-word available

वहन्तः जवना रामं भोभो जात्यास्तुरङ्गमाः । निवर्तध्वं न गन्तव्यं हिता भवत भर्तरि ।।2.45.14।।

Meaning

Shloka 45.15Word-by-word available

कर्णवन्ति हि भूतानि विशेषेण तुरङ्गमाः । यूयं तस्मान्निवर्तध्वं याचनां प्रतिवेदिताः ।।2.45.15।।

Meaning

Shloka 45.16Word-by-word available

धर्मतः स विशुद्धात्मा वीरः शुभदृढव्रतः । उपवाह्यस्तु वो भर्ता नापवाह्यः पुराद्वनम् ।।2.45.16।।

Meaning

Shloka 45.17Word-by-word available

एवमार्तप्रलापांस्तान्वृद्धान्प्रलपतो द्विजान् । अवेक्ष्य सहसा रामः रथादवततार ह ।।2.45.17।।

Meaning

Shloka 45.18Word-by-word available

पद्भ्यामेव जगामाथ ससीतः सहलक्ष्मणः । सन्निकृष्टपदन्यासो रामः वनपरायणः ।।2.45.18।।

Meaning

Shloka 45.19Word-by-word available

द्विजातींस्तु पदातींस्तान्रामश्चारित्रवत्सलः । न शशाक घृणाचक्षुः परिमोक्तुं रथेन सः ।।2.45.19।।

Meaning

Shloka 45.20Word-by-word available

गच्छन्तमेव तं दृष्ट्वा रामं सम्भ्रान्तचेतसः । ऊचुः परमसन्तप्ता रामं वाक्यमिदं द्विजाः ।।2.45.20।।

Meaning