Sarga 53: Rāma's Lament
रामविलापः
rāmavilāpaḥ — word-by-word gloss for all 35 shlokas.
Jump to a shloka · 35 in this sarga
स तं वृक्षं समासाद्य सन्ध्यामन्वास्य पश्चिमाम् । रामः रमयतां श्रेष्ठैति होवाच लक्ष्मणम् ।।2.53.1।।
Meaning
अद्येयं प्रथमा रात्रिर्याता जनपदाद्बहिः । या सुमन्त्रेण रहिता तां नोत्कण्ठितुमर्हसि ।।2.53.2।।
Meaning
जागर्तव्यमतन्द्रिभ्यामद्य प्रभृति रात्रिषु । योगक्षेमं हि सीतायाः वर्तते लक्ष्मणावयोः ।।2.53.3।।
Meaning
रात्रिं कथञ्चिदेवेमां सौमित्रे वर्तयामहे । उपावर्तामहे भूमौ आस्तीर्य स्वयमार्जितैः ।।2.53.4।।
Meaning
स तु संविश्य मेदिन्यां महार्हशयनोचितः । इमाः सौमित्रये रामः व्याजहार कथाः शुभाः ।।2.53.5।।
Meaning
ध्रुवमद्य महाराजो दुःखं स्वपिति लक्ष्मण । कृतकामा तु कैकेयी तुष्टा भवितुमर्हति ।।2.53.6।।
Meaning
सा हि देवी महाराजं कैकेयी राज्यकारणात् । अपि न च्यावयेत् प्राणान् दृष्ट्वा भरतमागतम् ।।2.53.7।।
Meaning
अनाथश्च हि वृद्धश्च मया चैव विनाकृतः । किं करिष्यति कामात्मा कैकेयी वशमागतः ।।2.53.8।।
Meaning
इदं व्यसनमालोक्य राज्ञश्च मतिविभ्रमम् । काम एवार्धधर्माभ्यां गरीयानिति मे मतिः ।।2.53.9।।
Meaning
को ह्यविद्वानपि पुमान् प्रमदाया कृते त्यजेत् । छन्दानुवर्तिनं पुत्रं तातः मामिव लक्ष्मण ।।2.53.10।।
Meaning