← Ayodhyā Kāṇḍa

Sarga 53: Rāma's Lament

रामविलापः

rāmavilāpaḥ — word-by-word gloss for all 35 shlokas.

Page 2 of 435 shlokas in this sarga (verified max-across-sources)
Shloka 53.11Word-by-word available

सुखी बत सभार्यश्च भरतः केकयीसुतः । मुदितान् कोसलान् एकः यो भोक्ष्यत्यधिराजवत् ।।2.53.11।।

Meaning

Shloka 53.12Word-by-word available

स हि सर्वस्य राज्यस्य मुखमेकं भविष्यति । ताते च वयसाऽतीते मयि चारण्यमास्थिते ।।2.53.12।।

Meaning

Shloka 53.13Word-by-word available

अर्थधर्मौ परित्यज्य यः काममनुवर्तते । एवमापद्यते क्षिप्रं राजा दशरथो यथा ।।2.53.13।।

Meaning

Shloka 53.14Word-by-word available

मन्ये दशरथान्ताय मम प्रव्राजनाय च । कैकेयी सौम्य सम्प्राप्ता राज्याय भरतस्य च ।।2.53.14।।

Meaning

Shloka 53.15Word-by-word available

अपीदानीं न कैकेयी सौभाग्यमदमोहिता । कौसल्यां च सुमित्रां च सम्प्रबाधेत मत्कृते ।।2.53.15।।

Meaning

Shloka 53.16Word-by-word available

मा स्म मत्कारणाद्देवी सुमित्रा दुःखमावसेत् । अयोध्यामित एव त्वं काल्ये प्रविश लक्ष्मण ।।2.53.16।।

Meaning

Shloka 53.17Word-by-word available

अहमेको गमिष्यामि सीतया सह दण्डकान् । अनाथाया हि नाथस्त्वं कौसल्याया भविष्यसि ।।2.53.17।।

Meaning

Shloka 53.18Word-by-word available

क्षुद्रकर्मा हि कैकेयी द्वेष्यमान्याय्यमाचरेत् । परिदद्या हि धर्मज्ञे भरते मम मातरम् ।।2.53.18।।

Meaning

Shloka 53.19Word-by-word available

नूनं जात्यन्तरे कस्मिन् स्त्रियः पुत्रैः वियोजिताः । जनन्या मम सौमित्रे तस्मादेतदुपस्थितम् ।।2.53.19।।

Meaning

Shloka 53.20Word-by-word available

मया हि चिरपुष्टेन दुःखसंवर्धितेन च । विप्रायुज्यत कौसल्या फलकाले धिगस्तुमाम् ।।2.53.20।।

Meaning