Sarga 53: Rāma's Lament
रामविलापः
rāmavilāpaḥ — word-by-word gloss for all 35 shlokas.
Jump to a shloka · 35 in this sarga
मा स्म सीमन्तिनी काचिज्जनयेत् पुत्रमीदृशम् । सौमित्रे योऽहमम्बायाः दद्मि शोकमनन्तकम् ।।2.53.21।।
Meaning
मन्ये प्रितिविशिष्टा सा मत्तः लक्ष्मण सारिका । यस्यास्तच्छ्रूयते वाक्यं शुकपादमरेर्दश ।।2.53.22।।
Meaning
शोचन्त्याश्चल्पभाग्यायाः न किञ्चिदुपकुर्वता । पुत्रेण किमपुत्रायाः मया कार्यमरिन्दम ।।2.53.23।।
Meaning
अल्पभाग्या हि मे माता कौसल्या रहिता मया । शेते परमदुःखार्ता पतिता शोकसागरे ।।2.53.24।।
Meaning
एको ह्यहमयोध्यां च पृथिवीं चापि लक्ष्मण । तरेयमिषुभिः क्रुद्धो ननु वीर्यमकारणम् ।।2.53.25।।
Meaning
अधर्मभयभीतश्च परलोकस्य चानघ । तेन लक्ष्मण नाद्याहमात्मानमभिषेचये ।।2.53.26।।
Meaning
एतदन्यच्च करुणं विलप्य विजने वने । अश्रुपूर्णमुखो रामर्निशि तूष्णीमुपाविशत् ।।2.53.27।।
Meaning
विलप्योपरतं रामं गतार्चिषमिवानलम् । समुद्रमिव निर्वेगमाश्वासयत लक्ष्मणः ।।2.53.28।।
Meaning
ध्रुवमद्य पुरी राजन् अयोध्यायुधिनां वर । निष्प्रभा त्वयि निष्क्रान्ते गतचन्द्रेव शर्वरी ।।2.53.29।।
Meaning
नैतदौपयिकं राम यदिदं परितप्यसे । विषादयसि सीतां च मां चैव पुरुषर्षभ ।।2.53.30।।
Meaning