Sarga 72: Bharata's Anguish
भरतसन्तापः
bharatasantāpaḥ — word-by-word gloss for all 54 shlokas.
Jump to a shloka · 54 in this sarga
अपश्यंस्तु ततस्तत्र पितरं पितुरालये । जगाम भरतो द्रष्टुं मातरं मातुरालये ।।2.72.1।।
Meaning
अनुप्राप्तं तु तं दृष्ट्वा कैकेयी प्रोषितं सुतम् । उत्पपात तदा हृष्टा त्यक्त्वा सौवर्णमानसम् ।।2.72.2।।
Meaning
स प्रविश्यैव धर्मात्मा स्व गृहं श्रीविवर्जितम् । भरतः प्रतिजग्राह जनन्याश्चरणौ शुभौ ।।2.72.3।।
Meaning
सा तं मूर्धन्युपाघ्राय परिष्वज्य यशस्विनम् । अङ्के भरतमारोप्य प्रष्टुं समुपचक्रमे ।।2.72.4।।
Meaning
अद्य ते कतिचिद्रात्र्यश्च्युतस्यार्यक वेश्मनः । अपि नाध्वश्रमः शीघ्रं रथेनापततस्तव ।।2.72.5।।
Meaning
आर्यकस्ते सुकुशली युधाजिन्मातुलस्तव । प्रवासाच्च सुखं पुत्र सर्वं मे वक्तुमर्हसि ।।2.72.6।।
Meaning
एवं पृष्टस्तु कैकेय्या प्रियं पार्थिवनन्दनः । आचष्ट भरतः सर्वं मात्रे राजीवलोचनः ।।2.72.7।।
Meaning
अद्य मे सप्तमी रात्रिश्च्युतस्यार्यक वेश्मनः । अम्बायाः कुशली तातः युधाजिन्मातुलश्च मे ।।2.72.8।।
Meaning
यन्मे धनं च रत्नं च ददौ राजा परन्तपः । परिश्रान्तं पथ्यभवत्ततोऽहं पूर्वमागतः ।।2.72.9।।
Meaning
राजवाक्यहरैर्दूतैः त्वर्यमाणोऽहमागतः । यदहं प्रष्टुमिच्छामि तदम्बा वक्तुमर्हसि ।।2.72.10।।
Meaning