Sarga 116: Report of Khara's Harassment
खरविप्रकरणकथनम्
kharaviprakaraṇakathanam — word-by-word gloss for all 26 shlokas.
Jump to a shloka · 26 in this sarga
प्रतिप्रयाते भरते वसन् रामस्तपोवने । लक्षयामास सोद्वेगमथौत्सुक्यं तपस्विनाम् ।।2.116.1।।
Meaning
ये तत्र चित्रकूटस्य पुरस्तात्तापसाश्रमे । राममाश्रित्य निरतास्तानलक्षयदुत्सुकान् ।।2.116.2।।
Meaning
नयनैर्भ्रुकुटीभिश्च रामं निर्दिश्य शङ्किताः । अन्योन्यमुपजल्पन्तः शनैश्चक्रुर्मिथः कथाः ।।2.116.3।।
Meaning
तेषामौत्सुक्यमालक्ष्य रामस्त्वात्मनि शङ्कितः । कृताञ्जलिरुवाचेदमृषिं कुलपतिं ततः ।।2.116.4।।
Meaning
न कच्चिद्भगवन् किञ्चित्पूर्ववृत्तमिदं मयि । दृश्यते विकृतं येन विक्रियन्ते तपस्विनः ।।2.116.5।।
Meaning
प्रमादाच्चरितं कच्चित्किञ्चिन्नावरजस्य मे । लक्ष्मणस्यर्षिभिर्दृष्टं नानुरूपमिवात्मनः ।।2.116.6।।
Meaning
कच्चिच्छुश्रूषमाणा वः शुश्रूषणपरा मयि । प्रमदाभ्युचितां वृत्तिं सीता युक्तं न वर्तते ।।2.116.7।।
Meaning
अथर्षिर्जरया वृद्धस्तपसा च जरां गतः । वेपमान इवोवाच रामं भूतदयापरम् ।।2.116.8।।
Meaning
कुतः कल्याणसत्त्वायाः कल्याणाभिरतेस्तथा । चलनं तात वैदेह्यास्तपस्विषु विशेषतः ।।2.116.9।।
Meaning
त्वन्निमित्तमिदं तावत्तापसान् प्रति वर्तते । रक्षोभ्यस्तेन संविग्नाः कथयन्ति मिथः कथाः ।।2.116.10।।
Meaning