← Ayodhyā Kāṇḍa

Sarga 116: Report of Khara's Harassment

खरविप्रकरणकथनम्

kharaviprakaraṇakathanam — word-by-word gloss for all 26 shlokas.

Jump to a shloka · 26 in this sarga

Page 2 of 326 shlokas in this sarga (verified max-across-sources)
Shloka 116.11Word-by-word available

रावणावरजः कश्चित् खरो नामेह राक्षसः । उत्पाट्य तापसान् सर्वान् जनस्थाननिकेतनान् ।।2.116.11।।

Meaning

Shloka 116.12Word-by-word available

धृष्टश्च जितकाशी च नृशंसः पुरुषादकः । अवलिप्तश्च पापश्च त्वां च तात न मृष्यते ।।2.116.12।।

Meaning

Shloka 116.13Word-by-word available

त्वं यदाप्रभृति ह्यस्मिन्नाश्रमे तात वर्तसे । तदाप्रभृति रक्षांसि विप्रकुर्वन्ति तापसान् ।।2.116.13।।

Meaning

Shloka 116.14Word-by-word available

दर्शयन्ति हि बीभत्सैः क्रूरैर्भीषणकैरपि । नानारूपैर्विरूपैश्च रूपैर्विकृतदर्शनैः ।।2.116.14।।

Meaning

Shloka 116.15Word-by-word available

अप्रशस्तैरशुचिभिः सम्प्रयोज्य च तापसान् । प्रतिघ्नन्त्यपरान् क्षिप्रमनार्याः पुरतः स्थिताः ।।2.116.15।।

Meaning

Shloka 116.16Word-by-word available

तेषु तेष्वाश्रमस्थानेष्वबुद्धमवलीय च । रमन्ते तापसांस्तत्र नाशयन्तोऽल्पचेतसः ।।2.116.16।।

Meaning

Shloka 116.17Word-by-word available

अपक्षिपन्ति स्रुग्भाण्डानग्नीन् सिञ्चन्ति वारिणा । कलशांश्च प्रमृद्नन्ति हवने समुपस्थिते ।।2.116.17।।

Meaning

Shloka 116.18Word-by-word available

तैर्दुरात्मभिरामृष्टानाश्रमान् प्रजिहासवः । गमनायान्यदेशस्य चोदयन्त्यृषयोऽद्यमाम् ।।2.116.18।।

Meaning

Shloka 116.19Word-by-word available

तत्पुरा राम शारीरीमुपहिंसां तपस्विषु । दर्शयन्ति हि दुष्टास्ते त्यक्ष्याम इममाश्रमम् ।।2.116.19।।

Meaning

Shloka 116.20Word-by-word available

बहुमूलफलं चित्रमविदूरादितो वनम् । पुराणाश्रममेवाहं श्रयिष्ये सगणः पुनः ।।2.116.20।।

Meaning