Sarga 116: Report of Khara's Harassment
खरविप्रकरणकथनम्
kharaviprakaraṇakathanam — word-by-word gloss for all 26 shlokas.
Jump to a shloka · 26 in this sarga
खरस्त्वय्यपि चायुक्तं पुरा तात प्रवर्तते । सहास्माभिरितो गच्छ यदि बुद्धिः प्रवर्तते ।।2.116.21।।
Meaning
सकलत्रस्य सन्देहो नित्यं यत्तस्य राघव । समर्थस्यापि वसतो वासो दुःखमिहाद्य ते ।।2.116.22।।
Meaning
इत्युक्तवन्तं रामस्तं राजपुत्रस्तपस्विनम् । न शशाकोत्तरैर्वाक्यैरवरोद्धुं समुत्सुकः ।।2.116.23।।
Meaning
अभिनन्द्य समापृच्छ्य समाधाय च राघवम् । स जगामाश्रमं त्यक्त्वा कुलैः कुलपतिः सह ।।2.116.24।।
Meaning
रामः संसाध्य त्वृषिगणमनुगमनात् देशात्तस्मात् कुलपतिमभिवाद्य ऋषिम् । सम्यक्प्रीतैस्तैरनुमत उपदिष्टार्थः पुण्यं वासाय स्वनिलयमुपसम्पेदे ।।2.116.25।।
Meaning
आश्रमं त्वृषिविरहितं प्रभुः क्षणमपि न विजहौ स राघवः । राघवं हि सततमनुगताः तापसाश्चार्षचरितधृतगुणाः ।।2.116.26।।
Meaning