Sarga 27: Sītā's Resolve as a Faithful Wife
पतिव्रताध्यवसायः
pativratādhyavasāyaḥ — word-by-word gloss for all 23 shlokas.
Jump to a shloka · 23 in this sarga
एवमुक्ता तु वैदेही प्रियार्हा प्रियवादिनी। प्रणयादेव सङ्क्रुद्धा भर्तारमिदमब्रवीत् ।।2.27.1।।
Meaning
किमिदं भाषसे राम वाक्यं लघुतया ध्रुवम्। त्वया यदपहास्यं मे श्रुत्वा नरवरात्मज ।।2.27.2।।
Meaning
आर्यपुत्र पिता माता भ्राता पुत्रस्तथा स्नुषा। स्वानि पुण्यानि भुञ्जानाः स्वं स्वं भाग्यमुपासते ।।2.27.3।।
Meaning
भर्तुर्भाग्यं तु भार्यैका प्राप्नोति पुरुषर्षभ। अतश्चैवाहमादिष्टा वने वस्तव्यमित्यपि ।।2.27.4।।
Meaning
न पिता नात्मजो नात्मा न माता न सखीजनः। इह प्रेत्य च नारीणां पतिरेको गतिः सदा ।।2.27.5।।
Meaning
यदि त्वं प्रस्थितो दुर्गं वनमद्यैव राघव। अग्रतस्ते गमिष्यामि मृद्गन्ती कुशकण्टकान् ।।2.27.6।।
Meaning
ईर्ष्यारोषौ बहिष्कृत्य भुक्तशेषमिवोदकम्। नय मां वीर विस्रब्धः पापं मयि न विद्यते ।।2.27.7।।
Meaning
प्रासादाग्रैर्विमानैर्वा वैहायसगतेन वा। सर्वावस्थागता भर्तुः पादच्छाया विशिष्यते ।।2.27.8।।
Meaning
अनुशिष्टाऽस्मि मात्रा च पित्रा च विविधाश्रयम्। नास्मि सम्प्रतिवक्तव्या वर्तितव्यं यथा मया ।।2.27.9।।
Meaning
अहं दुर्गं गमिष्यामि वनं पुरुषवर्जितम्। नानामृगगणाकीर्णं शार्दूलवृकसेवितम् ।।2.27.10।।
Meaning