Sarga 27: Sītā's Resolve as a Faithful Wife
पतिव्रताध्यवसायः
pativratādhyavasāyaḥ — word-by-word gloss for all 23 shlokas.
Jump to a shloka · 23 in this sarga
सुखं वने निवत्स्यामि यथैव भवने पितुः। अचिन्तयन्ती त्रींल्लोकांश्चिन्तयन्ती पतिव्रतम् ।।2.27.11।।
Meaning
शुश्रूषमाणा ते नित्यं नियता ब्रह्मचारिणी। सह रंस्ये त्वया वीर वनेषु मधुगन्धिषु ।।2.27.12।।
Meaning
त्वं हि कर्तुं वने शक्तो राम सम्परिपालनम्। अन्यस्यापि जनस्येह किं पुनर्मम मानद ।।2.27.13।।
Meaning
सह त्वया गमिष्यामि वनमद्य न संशयः। नाहं शक्या महाभाग निवर्तयितुमुद्यता ।।2.27.14।।
Meaning
फलमूलाशना नित्यं भविष्यामि न संशयः। न ते दुःखं करिष्यामि निवसन्ती सह त्वया ।।2.27.15।।
Meaning
इच्छामि सरितः शैलान्पल्वलानि वनानि च। द्रष्टुं सर्वत्र निर्भीता त्वया नाथेन धीमता ।।2.27.16।।
Meaning
हंसकारण्डवाकीर्णाः पद्मिनीः साधुपुष्पिताः। इच्छेयं सुखिनी द्रष्टुं त्वया वीरेण सङ्गता ।।2.27.17।।
Meaning
अभिषेकं करिष्यामि तासु नित्यं यतव्रता। सह त्वया विशालाक्ष रंस्ये परमनन्दिनी ।।2.27.18।।
Meaning
एवं वर्षसहस्राणां शतं वाऽहं त्वया सह। व्यतिक्रमं न वेत्स्यामि स्वर्गोपि न हि मे मतः ।।2.27.19।।
Meaning
स्वर्गेऽपि च विना वासो भविता यदि राघव। त्वया मम नरव्याघ्र नाहं तमपि रोचये ।।2.27.20।।
Meaning