Sarga 95: The Mandākinī Described
मन्दाकिनीवर्णना
mandākinīvarṇanā — word-by-word gloss for all 19 shlokas.
Jump to a shloka · 19 in this sarga
अथ शैलाद्विनिष्क्रम्य मैथिलीं कोसलेश्वरः । अदर्शयच्छुभजलां रम्यां मन्दाकिनीं नदीम् ।।2.95.1।।
Meaning
अब्रवीच्च वरारोहां चारुचन्द्रनिभाननाम् । विदेहराजस्य सुतां रामो राजीवलोचनः ।।2.95.2।।
Meaning
विचित्रपुलिनां रम्यां हंससारससेविताम् । कमलैरुपसम्पन्नां पश्य मन्दाकिनीं नदीम् ।।2.95.3।।
Meaning
नानाविधैस्तीररुहैर्वृतां पुष्पफलद्रुमैः । राजन्तीं राजराजस्य नलिनीमिव सर्वतः ।।2.95.4।।
Meaning
मृगयूथनिपीतानि कलुषाम्भांसि साम्प्रतम् । तीर्थानि रमणीयानि रतिं सञ्जनयन्ति मे ।।2.95.5।।
Meaning
जटाजिनधराः काले वल्कलोत्तरवाससः । ऋषयस्त्ववगाहन्ते नदीं मन्दाकिनीं प्रिये ।।2.95.6।।
Meaning
आदित्यमुपतिष्ठन्ते नियमादूर्ध्वबाहवः । एते परे विशालाक्षि मुनयः संशितव्रताः ।।2.95.7।।
Meaning
मारुतोद्धूतशिखरैः प्रनृत्त इव पर्वतः । पादपैः पत्रपुष्पाणि सृजद्भिरभितो नदीम् ।।2.95.8।।
Meaning
क्वचिन्मणिनिकाशोदां क्वचित्पुलिनशालिनीम् । क्वचित्सिद्धजनाकीर्णां पश्य मन्दाकिनीं नदीम् ।।2.95.9।।
Meaning
निर्धूतान् वायुना पश्य विततान्पुष्पसञ्चयान् । पोप्लूयमानानपरान् पश्य त्वं जलमध्यगान् ।।2.95.10।।
Meaning