Sarga 119: Entering the Daṇḍaka Forest

दण्डकारण्यप्रवेशः

daṇḍakāraṇyapraveśaḥ — word-by-word gloss for all 22 shlokas.

Jump to a shloka · 22 in this sarga

Page 1 of 322 shlokas in this sarga (verified max-across-sources)
Shloka 119.1Word-by-word available

अनसूया तु धर्मज्ञा श्रुत्वा तां महतीं कथाम् । पर्यष्वजत बाहुभ्यां शिरस्याघ्राय मैथिलीम् ।।2.119.1।।

Meaning

Shloka 119.2Word-by-word available

व्यक्ताक्षरपदं चित्रं भाषितं मधुरं त्वया । यथा स्वयंवरं वृत्तं तत्सर्वं हि श्रुतं मया । रमेऽहं कथया ते तु दृढं मधुरभाषिणि ।।2.119.2।।

Meaning

Shloka 119.3Word-by-word available

रविरस्तं गतः श्रीमानुपोह्य रजनीं शिवाम् ।।2.119.3।।

Meaning

Shloka 119.4Word-by-word available

दिवसं प्रतिकीर्णानामाहारार्थं पतत्रिणाम् । सन्ध्याकाले निलीनानां निद्रार्थं श्रूयते ध्वनिः ।।2.119.4।।

Meaning

Shloka 119.5Word-by-word available

एते चाप्यभिषेकार्द्रा मुनयः कलशोद्यताः । सहिता उपवर्तन्ते सलिलाप्लुतवल्कलाः ।।2.119.5।।

Meaning

Shloka 119.6Word-by-word available

ऋषीणामग्निहोत्रेषु हुतेषु विधिपूर्वकम् । कपोताङ्गारुणो धूमो दृश्यते पवनोद्धतः ।।2.119.6।।

Meaning

Shloka 119.7Word-by-word available

अल्पपर्णाहि तरवो घनीभूताः समन्ततः । विप्रकृष्टेऽपि देशेऽस्मिन्न प्रकाशन्ति वै दिशः ।।2.119.7।।

Meaning

Shloka 119.8Word-by-word available

रजनीचरसत्त्वानि प्रचरन्ति समन्ततः । तपोवनमृगा ह्येते वेदितीर्थेषु शेरते ।।2.119.8।।

Meaning

Shloka 119.9Word-by-word available

सम्प्रवृद्धा निशा सीते नक्षत्रसमलङ्कृता । ज्योत्स्नाप्रावरणश्चन्द्रो दृश्यतेऽभ्युदितोऽम्बरे ।।2.119.9।।

Meaning

Shloka 119.10Word-by-word available

गम्यतामनुजानामि रामस्यानुचरी भव । कथयन्त्या हि मधुरं त्वयाहं परितोषिता ।।2.119.10।।

Meaning