Sarga 105: Rāma's Words
रामवाक्यम्
rāmavākyam — word-by-word gloss for all 46 shlokas.
Jump to a shloka · 46 in this sarga
ततः पुरुषसिंहानां वृतानां तैः सुहृद्गणैः । शोचतामेव रजनी दुःखेन व्यत्यवर्तत ।।2.105.1।।
Meaning
रजन्यां सुप्रभातायां भ्रातरस्ते सुहृद्वृताः । मन्दाकिन्यां हुतं जप्यं कृत्वा राममुपागमन् ।।2.105.2।।
Meaning
तूष्णीं ते समुपासीनाः न कश्चित्किञ्चिदब्रवीत् । भरतस्तु सुहृन्मध्ये रामं वचनमब्रवीत् ।।2.105.3।।
Meaning
सान्त्विता मामिका माता दत्तं राज्यमिदं मम । तद्ददामि तवैवाहं भुङ्क्ष्व राज्यमकण्टकम् ।।2.105.4।।
Meaning
महतेवाम्बुवेगेन भिन्नः सेतुर्जलागमे । दुरावारं त्वदन्येन राज्यखण्डमिदं महत् ।।2.105.5।।
Meaning
गतिं खर इवाश्वस्य तार्क्ष्यस्येव पतत्रिणः । अनुगन्तुं न शक्तिर्मे गतिं तव महीपते ।।2.105.6।।
Meaning
सुजीवं नित्यशस्तस्य यः परैरुपजीव्यते । राम तेन तु दुर्जीवं यः परानुपजीवति ।।2.105.7।।
Meaning
यथा तु रोपितो वृक्षः पुरुषेण विवर्धितः । ह्रस्वकेन दुरारोहो रूढस्कन्धो महाद्रुमः ।।2.105.8।।
Meaning
स यथा पुष्पितो भूत्वा फलानि न विदर्शयेत् । स तां नानुभवेत्प्रीतिं यस्य हेतोः प्ररोपितः ।।2.105.9।।
Meaning
एषोपमा महाबाहो तमर्थं वेत्तुमर्हसि । यदि त्वमस्मान् वृषभो भर्ता भृत्यान्न शाधि हि ।।2.105.10।।
Meaning