← Ayodhyā Kāṇḍa

Sarga 105: Rāma's Words

रामवाक्यम्

rāmavākyam — word-by-word gloss for all 46 shlokas.

Page 2 of 546 shlokas in this sarga (verified max-across-sources)
Shloka 105.11Word-by-word available

श्रेणयस्त्वां महाराज पश्यन्त्वग्र्याश्च सर्वशः । प्रतपन्तमिवादित्यं राज्ये स्थितमरिन्दमम् ।।2.105.11।।

Meaning

Shloka 105.12Word-by-word available

तवानुयाने काकुत्स्थ मत्ता नर्दन्तु कुञ्जराः । अन्तःपुरगता नार्यो नन्दन्तु सुसमाहिताः ।।2.105.12।।

Meaning

Shloka 105.13Word-by-word available

तस्य साध्वित्यमन्यन्त नागरा विविधा जनाः । भरतस्य वचः श्रुत्वा रामं प्रत्यनुयाचतः ।।2.105.13।।

Meaning

Shloka 105.14Word-by-word available

तमेवं दुःखितं प्रेक्ष्य विलपन्तं यशस्विनम् । रामः कृतात्मा भरतं समाश्वासय दात्मवान् ।।2.105.14।।

Meaning

Shloka 105.15Word-by-word available

नात्मनः कामकारोऽस्ति पुरुषोऽयमनीश्वरः । इतश्चेतरतश्चैनं कृतान्तः परिकर्षति ।।2.105.15।।

Meaning

Shloka 105.16Word-by-word available

सर्वे क्षयान्ता निचयाः पतनान्ताः समुच्छ्रयाः । सम्योगा विप्रयोगान्ता मरणान्तं च जीवितम् ।।2.105.16।।

Meaning

Shloka 105.17Word-by-word available

यथा फलानां पक्वानां नान्यत्र पतनाद्भयम् । एवं नरस्य जातस्य नान्यत्र मरणाद्भयम् ।।2.105.17।।

Meaning

Shloka 105.18Word-by-word available

यथागारं दृढस्थूणं जीर्णं भूत्वावसीदति । तथैव सीदन्ति नराः जरामृत्युवशङ्गताः ।।2.105.18।।

Meaning

Shloka 105.19Word-by-word available

अत्येति रजनी या तु सा न प्रतिनिवर्तते । यात्येव यमुना पूर्णा समुद्रमुदकाकुलम् ।।2.105.19।।

Meaning

Shloka 105.20Word-by-word available

अहोरात्राणि गच्छन्ति सर्वेषां प्राणिनामिह । आयूंषि क्षपयन्त्याशु ग्रीष्मे जलमिवांशवः ।।2.105.20।।

Meaning