Sarga 105: Rāma's Words
रामवाक्यम्
rāmavākyam — word-by-word gloss for all 46 shlokas.
Jump to a shloka · 46 in this sarga
आत्मानमनुशोच त्वं किमन्यमनुशोचसि । आयुस्ते हीयते यस्य स्थितस्य च गतस्य च ।।2.105.21।।
Meaning
सहैव मृत्युर्व्रजति सह मृत्युर्निषीदति । गत्वा सुदीर्घमध्वानं सहमृत्युर्निवर्तते ।।2.105.22।।
Meaning
गात्रेषु वलयः प्राप्ताः श्वेताश्चैव शिरोरुहाः । जरया पुरुषो जीर्णः किं हि कृत्वा प्रभावयेत् ।।2.105.23।।
Meaning
नन्दन्त्युदितादित्ये नन्दन्त्यस्तमिते रवौ । आत्मनो नावबुध्यन्ते मनुष्या जीवितक्षयम् ।।2.105.24।।
Meaning
हृष्यन्त्यृतुमखं दृष्ट्वा नवं नवमिहागतम् । ऋतूनां परिवर्तेन प्राणिनां प्राणसङ्क्षयः ।।2.105.25।।
Meaning
यथा काष्ठं च काष्ठं च समेयातां महार्णवे । समेत्य च व्यपेयातां कालमासाद्य कञ्चन ।।2.105.26।।
Meaning
एवं भार्याश्च पुत्राश्च ज्ञातयश्च धनानि च । समेत्य व्यवधावन्ति ध्रुवो ह्येषां विनाभवः ।।2.105.27।।
Meaning
नात्र कश्चिद्यथाभावं प्राणी समभिवर्तते । तेन तस्मिन्न सामर्थ्यं प्रेतस्यास्त्यनुशोचतः ।।2.105.28।।
Meaning
यथा हि सार्थं गच्छन्तं ब्रूयात् कश्चित् पथि स्थितः । अहमप्यागमिष्यामि पृष्ठतो भवतामिति ।।2.105.29।।
Meaning
एवं पूर्वैर्गतो मार्गः पितृपैतामहो ध्रुवः । तमापन्नः कथं शोचेद्यस्य नास्ति व्यतिक्रमः ।।2.105.30।।
Meaning