Sarga 7: Mantharā's Lament
मन्थरापरिदेवनम्
mantharāparidevanam — word-by-word gloss for all 36 shlokas.
Jump to a shloka · 36 in this sarga
ज्ञातिदासी यतोजाता कैकेय्यास्तु सहोषिता। प्रासादं चन्द्रसङ्काशमारुरोह यदृच्छया ।।2.7.1।।
Meaning
सिक्तराजपथां रम्यां प्रकीर्णकुसुमोत्कराम्। अयोध्यां मन्थरा तस्मात्प्रासादादन्ववैक्षत ।।2.7.2।।
Meaning
पताकाभिर्वरार्हाभिर्ध्वजैश्च समलङ्कृताम्। वृतां छन्नपथैश्चापि शिरःस्नातजनैर्वृताम् ।।2.7.3।।
Meaning
माल्यमोदकहस्तैश्च द्विजेन्द्रैरभिनादिताम्। शुक्लदेवगृहद्वारां सर्ववादित्रनिस्वनाम् ।।2.7.4।।
Meaning
सम्प्रहृष्टजनाकीर्णां ब्रह्मघोषाभिनादिताम्। प्रहृष्टवरहस्त्यश्वां सम्प्रणर्दितगोवृषाम् ।।2.7.5।।
Meaning
प्रहृष्टमुदितैः पौरैरुच्छ्रितध्वजमालिनीम्। अयोध्यां मन्थरा दृष्ट्वा परं विस्मयमागता ।।2.7.6।।
Meaning
प्रहर्षोत्फुल्लनयनां पाण्डुरक्षौमवासिनीम्। अविदूरे स्थितां दृष्ट्वा धात्रीं पप्रच्छ मन्थरा ।।2.7.7।।
Meaning
उत्तमेनाभिसम्युक्ता हर्षेणार्थपरा सती। राममाता धनं किं नु जनेभ्यः सम्प्रयच्छति ।।2.7.8।।
Meaning
अतिमात्रप्रहर्षोऽयं किं जनस्य च शंस मे। कारयिष्यति किं वापि सम्प्रहृष्टो महीपतिः ।।2.7.9।।
Meaning
विदीर्यमाणा हर्षेण धात्री तु परया मुदा। आचचक्षेऽथ कुब्जायै भूयसीं राघवश्रियम् ।।2.7.10।।
Meaning