Sarga 7: Mantharā's Lament
मन्थरापरिदेवनम्
mantharāparidevanam — word-by-word gloss for all 36 shlokas.
Jump to a shloka · 36 in this sarga
श्वः पुष्येण जितक्रोधं यौवराज्येन राघवम्। राजा दशरथो राममभिषेचयितानघम् ।।2.7.11।।
Meaning
धात्र्यास्तु वचनं श्रुत्वा कुब्जा क्षिप्रममर्षिता। कैलासशिखराकारात्प्रासादादवरोहत ।।2.7.12।।
Meaning
सा दह्यमाना कोपेन मन्थरा पापदर्शिनी। शयानामेत्य कैकेयीमिदं वचनमब्रवीत् ।।2.7.13।।
Meaning
उत्तिष्ठ मूढे किं शेषे भयं त्वामभिवर्तते। उपप्लुतमघौघेन किमात्मानं न बुध्यसे ।।2.7.14।।
Meaning
अनिष्टे सुभगाकारे सौभाग्येन विकत्थसे। चलं हि तव सौभाग्यं नद्याः स्रोत इवोष्णगे ।।2.7.15।।
Meaning
एवमुक्ता तु कैकेयी रुष्टया परुषं वचः। कुब्जया पापदर्शिन्या विषादमगमत्परम् ।।2.7.16।।
Meaning
कैकेयी त्वब्रवीत्कुब्जां कच्चित्क्षेमं न मन्थरे। विषण्णवदनां हि त्वां लक्षये भृशदुःखिताम् ।।2.7.17।।
Meaning
मन्थरा तु वचः श्रुत्वा कैकेय्या मधुराक्षरम्। उवाच क्रोधसम्युक्ता वाक्यं वाक्यविशारदा ।।2.7.18।।
Meaning
सा विषण्णतरा भूत्वा कुब्जा तस्या हितैषिणी। विषादयन्ती प्रोवाच भेदयन्ती च राघवम् ।।2.7.19।।
Meaning
अक्षय्यं सुमहद्देवि प्रवृत्तं त्वद्विनाशनम्। रामं दशरथो राजा यौवराज्येऽभिषेक्ष्यति ।।2.7.20।।
Meaning