Sarga 65: Wailing in the Inner Palace

अन्तःपुराक्रन्दः

antaḥpurākrandaḥ — word-by-word gloss for all 29 shlokas.

Jump to a shloka · 29 in this sarga

Page 1 of 329 shlokas in this sarga (verified max-across-sources)
Shloka 65.1Word-by-word available

अथ रात्र्यां व्यतीतायां प्रातरेवापरेऽहनि । वन्दिनः पर्युपातिष्ठन् तत्पार्थिवनिवेशनम् ।।2.65.1।।

Meaning

Shloka 65.2Word-by-word available

सूताः परमसंस्काराः मङ्गलाश्चोत्तमश्रुताः । गायकाः स्तुतिशीलाश्च निगदन्तः पृथक् पृथक् ।।2.65.2।।

Meaning

Shloka 65.3Word-by-word available

राजानं स्तुवतां तेषामुदात्ताभिहिताशिषाम् । प्रासादाभोगविस्तीर्णः स्तुतिशब्दो ह्यवर्तत ।।2.65.3।।

Meaning

Shloka 65.4Word-by-word available

ततस्तु स्तुवतां तेषां सूतानां पाणिवादकाः । अपदानान्युदाहृत्य पाणिवादा नवादयन् ।।2.65.4।।

Meaning

Shloka 65.5Word-by-word available

तेन शब्देन विहगाः प्रतिबुद्धा विसस्वनुः । शाखास्थाः पञ्जरस्थाश्च ये राजकुलगोचराः ।।2.65.5।।

Meaning

Shloka 65.6Word-by-word available

व्याहृताः पुण्यशब्दाश्च वीणानां चापि निस्स्वनाः । आशीर्गेयं च गाथानां पूरयामास वेश्म तत् ।।2.65.6।।

Meaning

Shloka 65.7Word-by-word available

ततः शुचिसमाचाराः पर्युपस्थानकोविदाः । स्त्रीवर्षवरभूयिष्ठाः उपतस्थुर्यथापुरम् ।।2.65.7।।

Meaning

Shloka 65.8Word-by-word available

हरिचन्दनसम्पृक्तमुदकं काञ्चनैः घटैः । आनिन्युः स्नानशिक्षाज्ञा यथाकालं यथाविधि ।।2.65.8।।

Meaning

Shloka 65.9Word-by-word available

मङ्गलालम्भनीयानि प्राशनीयान्युपस्करान् । उपनिन्युस्तथाप्यन्याः कुमारीबहुलाः स्त्रियः ।।2.65.9।।

Meaning

Shloka 65.10Word-by-word available

सर्वलक्षणसम्पन्नं सर्वं विधिवदर्चितम् । सर्वं सुगुणलक्ष्मीवत्तद्भभूवाभिहारिकम् ।।2.65.10।।

Meaning