Sarga 65: Wailing in the Inner Palace
अन्तःपुराक्रन्दः
antaḥpurākrandaḥ — word-by-word gloss for all 29 shlokas.
Jump to a shloka · 29 in this sarga
तत्तु सूर्योदयं यावत्सर्वं परिसमुत्सुकम् । तस्थावनुपसम्प्राप्तं किं स्विदित्युपशङ्कितम् ।।2.65.11।।
Meaning
अथयाः कोसलेन्द्रस्य शयनं प्रत्यनन्तराः । ताः स्त्रियस्तु समागम्य भर्तारं प्रत्यबोधयन् ।।2.65.12।।
Meaning
तथाऽप्युचितवृत्तास्ताः विनयेन नयेन च । नह्यस्य शयनं स्पृष्ट्वा किञ्चिदप्युपलेभिरे ।।2.65.13।।
Meaning
ताः स्त्रीयः स्वप्नशीलज्ञास्चेष्टासञ्चलनादिषु । ता वेपथुपरीताश्च राज्ञः प्राणेषु शङ्किताः ।।2.65.14।।
Meaning
प्रतिस्रोतस्तृणाग्राणां सदृशं सञ्चकम्पिरे । अथ संवेपमानानां स्त्रीणां दृष्ट्वा च पार्थिवम् ।।2.65.15।।
Meaning
यत्तदाशङ्कितं पापं तस्य जज्ञे विनिश्चयः । कौसल्या च सुमित्रा च पुत्रशोकपराजिते ।।2.65.16।।
Meaning
प्रसुप्ते न प्रबुध्येते यथा कालसमन्विते । निष्प्रभा च विवर्णा च सन्ना शोकेन सन्नता ।।2.65.17।।
Meaning
न व्यराजत कौसल्या तारेव तिमिरावृता । कौसल्याऽनन्तरं राज्ञः सुमित्रा तदन्तनरम् ।।2.65.18।।
Meaning
न स्म विभ्राजते देवी शोकाश्रुलुलितानना । ते च दृष्ट्वा तथा सुप्ते उभे देव्यौ च तं नृपम् ।।2.65.19।।
Meaning
सुप्तमेवोद्गतप्राणमन्तः पुरमदृश्यत । ततः प्रचुक्रुशुर्दीनाः सस्वरं ता वराङ्गनाः ।।2.65.20।।
Meaning