Sarga 65: Wailing in the Inner Palace
अन्तःपुराक्रन्दः
antaḥpurākrandaḥ — word-by-word gloss for all 29 shlokas.
Jump to a shloka · 29 in this sarga
करेणवैवारण्ये स्थानप्रच्युतयूथपाः । तासामाक्रन्दशब्देन सहसोद्गतचेतने ।।2.65.21।।
Meaning
कौसल्या च सुमित्राच त्यक्तनिद्रे बभूवतुः । कौसल्या च सुमित्रा च दृष्ट्वा स्पृष्ट्वा च पार्थिवम् ।।2.65.22।।
Meaning
हा नाथेति परिक्रुश्य पेततुर्धरणीतले । सा कोसलेन्द्रदुहिता वेष्टमाना महीतले ।।2.65.23।।
Meaning
न बभ्राज रजोध्वस्ता तारेव गगनाच्च्युता । नृपे शान्तगुणे जाते कौसल्यां पतितां भुवि ।।2.65.24।।
Meaning
आपश्यंस्ताः स्त्रियः सर्वाः हतां नागवधूमिव । ततः सर्वा नरेन्द्रस्य कैकेयीप्रमुखाः स्त्रियः ।।2.65.25।।
Meaning
रुदन्त्यः शोकसन्तप्ता निपेतुर्गतचेतनाः । ताभिः स बलवान्नादः क्रोशन्तीभिरनुद्रुतः ।।2.65.26।।
Meaning
येन स्थिरीकृतं भूयस्तद्गृहं समनादयत् । तत्समुत्त्रस्तसम्भ्रान्तं पर्युत्सुकजनाकुलम् ।।2.65.27।।
Meaning
सर्वतस्तुमुलाक्रन्दं परितापार्तबान्धवम् । सद्यो निपतितानन्दं दीनविक्लबदर्शनम् ।।2.65.28।।
Meaning
बभूव नरदेवस्य सद्म दिष्टान्तमीयुषः । अतीतमाज्ञाय तु पार्थिवर्षभम् यशस्विनं सम्परिवार्य पत्नयः । भृशं रुदन्त्यः करुणं सुदुःखिताः प्रगृह्य बाहू व्यलपन्ननाथवत् ।।2.65.29।।
Meaning