Sarga 30: Sītā's Request Granted
वनगमनाभ्युपपत्तिः
vanagamanābhyupapattiḥ — word-by-word gloss for all 47 shlokas.
Jump to a shloka · 47 in this sarga
सान्त्व्यमाना तु रामेण मैथिली जनकात्मजा। वनवासनिमित्ताय भर्तारमिदमब्रवीत् ।।2.30.1।।
Meaning
सा तमुत्तमसंविग्ना सीता विपुलवक्षसम्। प्रणयाच्चाभिमानाच्च परिचिक्षेप राघवम् ।।2.30.2।।
Meaning
किं त्वाऽमन्यत वैदेहः पिता मे मिथिलाधिपः। राम जामातरं प्राप्य स्त्रियं पुरुषविग्रहम् ।।2.30.3।।
Meaning
अनृतं बत लोकोऽयमज्ञानाद्यद्धि वक्ष्यति। तेजो नास्ति परं रामे तपतीव दिवाकरे ।।2.30.4।।
Meaning
किं हि कृत्वा विषण्णस्त्वं कुतो वा भयमस्ति ते। यत्परित्यक्तुकामस्त्वं मामनन्यपरायणाम् ।।2.30.5।।
Meaning
द्युमत्सेनसुतं वीर सत्यवन्तमनुव्रताम्। सावित्रीमिव मां विद्धि त्वमात्मवशवर्तिनीम् ।।2.30.6।।
Meaning
न त्वहं मनसाऽप्यन्यं द्रष्टास्मि त्वदृतेऽनघ। त्वया राघव गच्छेयं यथान्या कुलपांसनी ।।2.30.7।।
Meaning
स्वयं तु भार्यां कौमारीं चिरमध्युषितां सतीम्। शैलूष इव मां राम परेभ्यो दातुमिच्छसि ।।2.30.8।।
Meaning
यस्य पथ्यं च रामात्थ यस्य चार्थेऽवरुध्यसे। त्वं तस्य भव वश्यश्च विधेयश्च सदाऽनघ ।।2.30.9।।
Meaning
स मामनादाय वनं न त्वं प्रस्थातुमर्हसि। तपो वा यदि वाऽरण्यं स्वर्गो वा स्यात्त्वया सह ।।2.30.10।।
Meaning