Sarga 94: Citrakūṭa Described
चित्रकूटवर्णना
citrakūṭavarṇanā — word-by-word gloss for all 27 shlokas.
Jump to a shloka · 27 in this sarga
दीर्घकालोषितस्तस्मिन् गिरौ गिरिवनप्रियः । वैदेह्याः प्रियमाकाङ्क्षन् स्वं च चित्तं विलोभयन् ।।2.94.1।।
Meaning
अथ दाशरथिश्चित्रं चित्रकूटमदर्शयत् । भार्याममरसङ्काशः शचीमिव पुरन्दरः ।।2.94.2।।
Meaning
न राज्याद्भ्रंशनं भद्रे न सुहृद्भिर्विनाभवः । मनो मे बाधते दृष्ट्वा रमणीयमिमं गिरिम् ।।2.94.3।।
Meaning
पश्येममचलं भद्रे नानाद्विजगणायुतम् । शिखरैः खमिवोद्विद्धैर्धातुमद्भिर्विभूषितम् ।।2.94.4।।
Meaning
केचिद्रजतसङ्काशाः केचित् क्षतजसन्निभाः । पीतमाञ्जिष्ठवर्णाश्च केचिन्मणिवरप्रभाः ।।2.94.5।।
Meaning
पुष्पार्ककेतकाभाश्च केचिज्ज्योतीरसप्रभाः । विराजन्तेऽचलेन्द्रस्य देशा धातुविभूषिताः ।।2.94.6।।
Meaning
नानामृगगणद्वीपितरक्ष्वृक्षगणैर्वृतः । अदुष्टैर्भात्ययं शैलो बहुपक्षिसमायुतः ।।2.94.7।।
Meaning
आम्रजम्ब्वसनैर्लोध्रैः प्रियालैः पनसैर्धवैः । अङ्कोलैर्भव्यतिनिशैर्बिल्वतिन्दुकवेणुभिः ।।2.94.8।।
Meaning
काश्मर्यरिष्टवरुणैर्मधूकैस्तिलकैस्तथा । बदर्यामलकैर्नीपैर्वेत्रधन्वनबीजकैः ।।2.94.9।।
Meaning
पुष्पवद्भिः फलोपेतैश्छायावद्भिर्मनोरमैः । एवमादिभिराकीर्णः श्रियं पुष्यत्ययं गिरिः ।।2.94.10।।
Meaning