Sarga 40: The Citizens Follow

पौराद्यनुव्रज्या

paurādyanuvrajyā — word-by-word gloss for all 51 shlokas.

Page 1 of 651 shlokas in this sarga (verified max-across-sources)
Shloka 40.1Word-by-word available

अथ रामश्च सीता च लक्ष्मणश्च कृताञ्जलिः । उपसङ्गृह्य राजानं चक्रुर्दीनाः प्रदक्षिणम् ।।2.40.1।।

Meaning

Shloka 40.2Word-by-word available

तं चापि समनुज्ञाप्य धर्मज्ञः सीतया सह । राघवः शोकसम्मूढो जननीमभ्यवादयत् ।।2.40.2।।

Meaning

Shloka 40.3Word-by-word available

अन्वक्षं लक्ष्मणो भ्रातुः कौसल्यामभ्यवादयत् । अथ मातुः सुमित्राया जग्राह चरणौ पुनः ।।2.40.3।।

Meaning

Shloka 40.4Word-by-word available

तं वन्दमानं रुदती माता सौमित्रिमब्रवीत् । हितकामा महाबाहुं मूर्ध्न्युपाघ्राय लक्ष्मणम् ।।2.40.4।।

Meaning

Shloka 40.5Word-by-word available

सृष्टस्त्वं वनवासाय स्वनुरक्तः सुहृज्जने । रामे प्रमादं मा कार्षीः पुत्र भ्रातरि गच्छति ।।2.40.5।।

Meaning

Shloka 40.6Word-by-word available

व्यसनी वा समृद्धो वा गतिरेष तवानघ । एष लोके सतां धर्मो यज्ज्येष्ठवशगो भवेत् ।।2.40.6।।

Meaning

Shloka 40.7Word-by-word available

इदं हि वृत्तमुचितं कुलस्यास्य सनातनम् । दानं दीक्षा च यज्ञेषु तनुत्यागो मृधेषु च ।।2.40.7।।

Meaning

Shloka 40.8Word-by-word available

लक्ष्मणं त्वेवमुक्त्वा सा संसिद्धं प्रियराघवम् । सुमित्रा गच्छ गच्छेति पुनः पुनरुवाच तम् ।।2.40.8।।

Meaning

Shloka 40.9Word-by-word available

रामं दशरथं विद्धि मां विद्धि जनकात्मजाम् । अयोध्यामटवीं विद्धि गच्छ तात यथासुखम् ।।2.40.9।।

Meaning

Shloka 40.10Word-by-word available

ततः सुमन्त्रः काकुत्स्थं प्राञ्जलिर्वाक्यमब्रवीत् । विनीतो विनयज्ञश्च मातलिर्वासवं यथा ।।2.40.10।।

Meaning