Sarga 40: The Citizens Follow
पौराद्यनुव्रज्या
paurādyanuvrajyā — word-by-word gloss for all 51 shlokas.
Jump to a shloka · 51 in this sarga
रथमारोह भद्रं ते राजपुत्र महायशः । क्षिप्रं त्वां प्रापयिष्यामि यत्र मां राम वक्ष्यसि ।।2.40.11।।
Meaning
चतुर्दश हि वर्षाणि वस्तव्यानि वने त्वया । तान्युपक्रमितव्यानि यानि देव्याऽसि चोदितः ।।2.40.12।।
Meaning
तं रथं सूर्यसङ्काशं सीता हृष्टेन चेतसा । आरुरोह वरारोहा कृत्वालंकारमात्मनः ।।2.40.13।।
Meaning
अथो ज्वलनसङ्काशं चामीकरविभूषितम् । तमारुरुहतुस्तूर्णं भ्रातरौ रामलक्ष्मणौ ।।2.40.14।।
Meaning
वनवासं हि सङ्ख्याय वासांस्याभरणानि च । भर्तारमनुगच्छन्त्यै सीतायै श्वशुरो ददौ ।।2.40.15।।
Meaning
तथैवायुधजालानि भ्रातृभ्यां कवचानि च । रथोपस्थे प्रतिन्यस्य सचर्म कठिनं च तत् ।।2.40.16।।
Meaning
सीतातृतीयानारूढान्दृष्ट्वा धृष्टमचोदयत् । सुमन्त्रः सम्मतानश्वान्वायुवेगसमाञ्जवे ।।2.40.17।।
Meaning
प्रतियाते महारण्यं चिररात्राय राघवे । बभूव नगरे मूर्छा बलमूर्छा जनस्य च ।।2.40.18।।
Meaning
तत्समाकुलसम्भ्रान्तं मत्तसङ्कुपितद्विपम् । हयशिञ्जितनिर्घोषं पुरमासीन्महास्वनम् ।।2.40.19।।
Meaning
ततः सबालवृद्धा सा पुरी परमपीडिता । राममेवाभिदुद्राव घर्मार्ता सलिलं यथा ।।2.40.20।।
Meaning