Sarga 40: The Citizens Follow
पौराद्यनुव्रज्या
paurādyanuvrajyā — word-by-word gloss for all 51 shlokas.
Jump to a shloka · 51 in this sarga
पार्श्वतः पृष्ठतश्चापि लम्बमानास्तदुन्मुखाः । बाष्पपूर्णमुखाः सर्वे तमूचुर्भृशनिस्वनाः ।।2.40.21।।
Meaning
सम्यच्छ वाजिनां रश्मीन्सूत याहि शनैः शनैः । मुखं द्रक्ष्याम रामस्य दुर्दर्शं नो भविष्यति ।।2.40.22।।
Meaning
आयसं हृदयं नूनं राममातुरसंशयम् । यद्देवगर्भप्रतिमे वनं याति न भिद्यते ।।2.40.23।।
Meaning
कृतकृत्या हि वैदेही छायेवानुगता पतिम् । न जहाति रता धर्मे मेरुमर्कप्रभा यथा ।।2.40.24।।
Meaning
अहो लक्ष्मण सिद्धार्थः सततां प्रियवादिनम् । भ्रातरं देवसङ्काशं यस्त्वं परिचरिष्यसि ।।2.40.25।।
Meaning
महत्येषा हि ते सिद्धिरेष चाभ्युदयो महान् । एष स्वर्गस्य मार्गश्च यदेनमनुगच्छसि ।।2.40.26।।
Meaning
एवं वदन्तस्ते सोढुं न शेकुर्बाष्पमागतम् । नरास्तमनुगच्छन्तः प्रियमिक्ष्वाकुनन्दनम् ।।2.40.27।।
Meaning
अथ राजा वृतः स्त्रीभिर्दीनाभिर्दीनचेतनः । निर्जगाम प्रियं पुत्रं द्रक्ष्यामीति ब्रुवन्गृहात् ।।2.40.28।।
Meaning
शुश्रुवे चाग्रतः स्त्रीणां रुदन्तीनां महास्वनः । यथा नादः करेणूनां बद्धे महति कुञ्जरे ।।2.40.29।।
Meaning
पिता हि राजा काकुत्स्थः श्रीमान्सन्नस्तदाऽभवत् । परिपूर्णः शशी काले ग्रहेणोपप्लुतो यथा ।।2.40.30।।
Meaning