Sarga 40: The Citizens Follow
पौराद्यनुव्रज्या
paurādyanuvrajyā — word-by-word gloss for all 51 shlokas.
Jump to a shloka · 51 in this sarga
स च श्रीमानचिन्त्यात्मा रामो दशरथात्मजः । सूतं सञ्चोदयामास त्वरितं वाह्यतामिति ।।2.40.31।।
Meaning
रामो याहीति सूतं तं तिष्ठेति स जनस्तदा । उभयं नाशकत्सूतः कर्तुमध्वनि चोदितः ।।2.40.32।।
Meaning
निर्गच्छति महाबाहौ रामे पौरजनाश्रुभिः । पतितैरभ्यवहितं प्रशशाम महीरजः ।।2.40.33।।
Meaning
रुदिताश्रुपरिद्यूनं हाहाकृतमचेतनम् । प्रयाणे राघवस्यासीत्पुरं परमपीडितम् ।।2.40.34।।
Meaning
सुस्राव नयनैः स्त्रीणामास्रमायाससम्भवम् । मीनसङ्क्षोभचलितैः सलिलं पङ्कजैरिव ।।2.40.35।।
Meaning
दृष्ट्वा तु नृपतिः श्रीमानेकचित्तगतं पुरम् । निपपातैव दुःखेन हतमूल इव द्रुमः ।।2.40.36।।
Meaning
ततो हलहलाशब्दो जज्ञे रामस्य पृष्ठतः । नराणां प्रेक्ष्य राजानं सीदन्तं भृशदुःखितम् ।।2.40.37।।
Meaning
हा रामेति जनाः केचिद्राममातेति चापरे । अन्तःपुरं समृद्धं च क्रोशन्तः पर्यदेवयन् ।।2.40.38।।
Meaning
अन्वीक्षमाणो रामस्तु विषण्णं भ्रान्तचेतसम् । राजानं मातरं चैव ददर्शानुगतौ पथि ।।2.40.39।।
Meaning
स बद्ध इव पाशेन किशोरो मातरं यथा । धर्मपाशेन सङ्क्षिप्तः प्रकाशं नाभ्युदैक्षत ।।2.40.40।।
Meaning