Sarga 36: Siddhārtha's Counsel

सिद्धार्थप्रतिबोधनम्

siddhārthapratibodhanam — word-by-word gloss for all 33 shlokas.

Page 1 of 433 shlokas in this sarga (verified max-across-sources)
Shloka 36.1Word-by-word available

ततः सुमन्त्रमैक्ष्वाकः पीडितोऽत्र प्रतिज्ञया । सबाष्पमतिनिश्वस्य जगादेदं पुनः पुनः ।।2.36.1।।

Meaning

Shloka 36.2Word-by-word available

सूत रत्नसुसम्पूर्णा चतुर्विधबला चमूः । राघवस्यानुयात्रार्थं क्षिप्रं प्रतिविधीयताम् ।।2.36.2।।

Meaning

Shloka 36.3Word-by-word available

रूपाजीवाश्च वादिन्यो वणिजश्च महाधनाः । शोभयन्तु कुमारस्य वाहिनीं सुप्रसारिताः ।।2.36.3।।

Meaning

Shloka 36.4Word-by-word available

ये चैनमुपजीवन्ति रमते यैश्च वीर्यतः । तेषां बहुविधं दत्त्वा तानप्यत्र नियोजय ।।2.36.4।।

Meaning

Shloka 36.5Word-by-word available

आयुधानि च मुख्यानि नागराः शकटानि च । अनुगच्छन्तु काकुत्थ्सं व्याधाश्चारण्यगोचराः ।।2.36.5।।

Meaning

Shloka 36.6Word-by-word available

निघ्नन्मृगान्कुञ्जरांश्च पिबंश्चारण्यकं मधु । नदीश्च विविधाः पश्यन्न राज्यस्य स्मरिष्यति ।।2.36.6।।

Meaning

Shloka 36.7Word-by-word available

धान्यकोशश्च यः कश्चिद्धनकोशश्च मामकः । तौ राममनुगच्छेतां वसन्तं निर्जने वने ।।2.36.7।।

Meaning

Shloka 36.8Word-by-word available

यजन्पुण्येषु देशेषु विसृजंश्चाप्तदक्षिणाः । ऋषिभिश्च समागम्य प्रवत्स्यति सुखं वने ।।2.36.8।।

Meaning

Shloka 36.9Word-by-word available

भरतश्च महाबाहुः अयोध्यां पालयिष्यति । सर्वकामैः पुनः श्रीमान्रामः संसाध्यतामिति ।।2.36.9।।

Meaning

Shloka 36.10Word-by-word available

एवं ब्रुवति काकुत्स्थे कैकेय्या भयमागतम् । मुखं चाप्यगमच्छोषं स्वरश्चापि न्यरुध्यत ।।2.36.10।।

Meaning