Sarga 36: Siddhārtha's Counsel
सिद्धार्थप्रतिबोधनम्
siddhārthapratibodhanam — word-by-word gloss for all 33 shlokas.
Jump to a shloka · 33 in this sarga
सा विषण्णा च सन्त्रस्ता मुखेन परिशुष्यता । राजानमेवाभिमुखी कैकेयी वाक्यमब्रवीत् ।।2.36.11।।
Meaning
राज्यं गतजनं साधो पीतमण्डां सुरामिव । निरास्वाद्यतमं शून्यं भरतो नाभिपत्स्यते ।।2.36.12।।
Meaning
कैकेय्यां मुक्तलज्जायां वदन्त्यामतिदारुणम् । राजा दशरथो वाक्यमुवाचायतलोचनाम् ।।2.36.13।।
Meaning
वहन्तं किं तुदसि मां नियुज्य धुरि माऽहिते । अनार्ये कृत्यमारब्धं किं न पूर्वमुपारुधः ।।2.36.14।।
Meaning
तस्यैतत्क्रोधसम्युक्तंमुक्तं श्रुत्वा वराङ्गना । कैकेयी द्विगुणं क्रुद्धा राजानमिदमब्रवीत् ।।2.36.15।।
Meaning
तवैव वंशे सगरो ज्येष्ठपुत्रमुपारुधत् । असमञ्ज इति ख्यातं तथाऽयं गन्तुमर्हति ।।2.36.16।।
Meaning
एवमुक्तोधिगित्येव राजा दशरथोऽब्रवीत् । व्रीडितश्च जनः सर्वः सा च तं नावबुध्यत ।।2.36.17।।
Meaning
तत्र वृद्धो महामात्रः सिद्धार्थो नाम नामतः । शुचिर्बहुमतो राज्ञः कैकेयीमिदमब्रवीत् ।।2.36.18।।
Meaning
असमञ्जो गृहीत्वा तु क्रीडितः पथि दारकान् । सरय्वाः प्रक्षिपन्नप्सु रमते तेन दुर्मतिः ।।2.36.19।।
Meaning
तं दृष्ट्वा नागराः सर्वे क्रुद्धा राजानमब्रुवन् । असमञ्जं वृणीष्वैकमस्मान्वा राष्ट्रवर्धन ।।2.36.20।।
Meaning