Sarga 47: The Citizens Turn Back
पौरनिवृत्तिः
pauranivṛttiḥ — word-by-word gloss for all 19 shlokas.
Jump to a shloka · 19 in this sarga
प्रभातायां तु शर्वर्यां पौरास्ते राघवं विना । शोकोपहतनिश्चेष्टा बभूवुर्हतचेतसः ।।2.47.1।।
Meaning
शोकजाश्रुपरिद्यूना वीक्षमाणास्ततस्ततः । आलोकमपि रामस्य न पश्यन्ति स्म दुःखिताः ।।2.47.2।।
Meaning
ते विषादार्तवदनाः रहितास्तेन धीमता । कृपणाः करुणा वाचो वदन्ति स्म मनस्विनः ।।2.47.3।।
Meaning
धिगस्तु खलु निद्रां तां ययाऽपहृतचेतसः । नाद्य पश्यामहे रामं पृथूरस्कं महाभुजम् ।।2.47.4।।
Meaning
कथं नाम महाबाहुः स तथाऽवितथक्रियः । भक्तं जनं परित्यज्य प्रवासं राघवो गतः ।।2.47.5।।
Meaning
यो नः सदा पालयति पिता पुत्रानिवौरसान् । कथं रघूणां स श्रेष्ठस्त्यक्त्वा नो विपिनं गतः ।।2.47.6।।
Meaning
इहैव निधनं यामो महाप्रस्थानमेव वा । रामेण रहितानां हि किमर्थं जीवितं हि नः ।।2.47.7।।
Meaning
सन्ति शुष्काणि काष्ठानि प्रभूतानि महान्ति च । तैः प्रज्वाल्य चितां सर्वे प्रविशामोऽथ पावकम् ।।2.47.8।।
Meaning
किं वक्ष्यामो महाबाहुरनसूयः प्रियंवदः । नीतः स राघवोऽस्माभिरिति वक्तुं कथं क्षमम् ।।2.47.9।।
Meaning
सा नूनं नगरी दीना दृष्ट्वाऽस्मान्राघवं विना । भविष्यति निरानन्दा सस्त्रीबालवयोऽधिका ।।2.47.10।।
Meaning