Sarga 47: The Citizens Turn Back
पौरनिवृत्तिः
pauranivṛttiḥ — word-by-word gloss for all 19 shlokas.
Jump to a shloka · 19 in this sarga
निर्यातास्तेन वीरेण सह नित्यं जितात्मना । विहिनास्तेन च पुनः कथं पश्याम तां पुरीम् ।।2.47.11।।
Meaning
इतीव बहुधा वाचो बाहुमुद्यम्य ते जनाः । विलपन्ति स्म दुःखर्ता विवत्सा इव धेनवः ।।2.47.12।।
Meaning
ततः मार्गानुसारेण गत्वा किञ्चित् क्षणं पुनः मार्गनाशाद्विषादेन महता समभिप्लुताः ।।2.47.13।।
Meaning
रथस्य मार्गनाशेन न्यवर्तन्त मनस्विनः । किमिदं किं करिष्यामो दैवेनोपहता इति ।।2.47.14।।
Meaning
ततः यथागतेनैव मार्गेण क्लान्तचेतसः । अयोध्यामगमन्सर्वे पुरीं व्यथितसज्जनाम् ।।2.47.15।।
Meaning
आलोक्य नगरीं तां च क्षयव्याकुलमानसाः । आवर्तयन्त तेऽश्रूणि नयनैः शोकपीडितैः ।।2.47.16।।
Meaning
एषा रामेण नगरी रहिता नातिशोभते । आपगा गरुडेनेव ह्रदादुद्धृतपन्नगा ।।2.47.17।।
Meaning
चन्द्रहीनमिवाकाशं तोयहीनमिवार्णवम् । अपश्यन्निहतानन्दं नगरं ते विचेतसः ।।2.47.18।।
Meaning
ते तानि वेश्मानि महाधनानि दुःखेन दुःखोपहता विशन्तः । नैव प्रजज्ञुः स्वजनं जनं वा निरीक्षमाणाः प्रविनष्टहर्षाः ।।2.47.19।।
Meaning