Sarga 50: Meeting with Guha
गुहसङ्गतम्
guhasaṅgatam — word-by-word gloss for all 51 shlokas.
Jump to a shloka · 51 in this sarga
विशालान्कोसलान्रम्यान्यात्वा लक्ष्मणपूर्वजः । अयोध्याऽभिमुखो धीमान्प्राञ्जलिर्वाक्यमब्रवीत् ।।2.50.1।।
Meaning
आपृच्छे त्वां पुरि श्रेष्ठे काकुत्स्थपरिपालिते । दैवतानि च यानि त्वां पालयन्त्यावसन्ति च ।।2.50.2।।
Meaning
निवृत्तवनवासस्त्वामनृणो जगतीपतेः । पुनर्द्रक्ष्यामि मात्रा च पित्रा च सह सङ्गतः ।।2.50.3।।
Meaning
ततो रुधिरताम्राक्षो भुजमुद्यम्य दक्षिणम् । अश्रुपूर्णमुखो दीनोऽब्रवीज्जानपदं जनम् ।।2.50.4।।
Meaning
अनुक्रोशो दया चैव यथार्हं मयि वः कृतः । चिरं दुःखस्य पापीयो गम्यतामर्थसिद्धये ।।2.50.5।।
Meaning
तेऽभिवाद्य महात्मानं कृत्वा चापि प्रदक्षिणम् । विलपन्तो नरा घोरं व्यतिष्ठन्त क्वचित्क्वचित् ।।2.50.6।।
Meaning
तथा विलपतां तेषामतृप्तानां च राघवः । अचक्षुर्विषयं प्रायाद्यथाऽर्कः क्षणदामुखे ।।2.50.7।।
Meaning
ततो धान्यधनोपेतान्दानशीलजनान्शिवान् । अकुतश्चिद्भयान्रम्यां श्चैत्ययूपसमावृतान् ।।2.50.8।।
Meaning
उद्यानाम्रवणोपेतान्सम्पन्नसलिलाशयान् । तुष्टपुष्टजनाकीर्णान्गोकुलाकुलसेवितान् ।।2.50.9।।
Meaning
लक्षणीयान्नरेन्द्राणां ब्रह्मघोषाभिनादितान् । रथेन पुरुषव्याघ्रः कोसलानत्यवर्तत ।।2.50.10।।
Meaning