Sarga 50: Meeting with Guha
गुहसङ्गतम्
guhasaṅgatam — word-by-word gloss for all 51 shlokas.
Jump to a shloka · 51 in this sarga
मध्येन मुदितं स्फीतं रम्योद्यानसमाकुलम् । राज्यं भोग्यं नरेन्द्राणां ययौ धृतिमतांवरः ।।2.50.11।।
Meaning
तत्र त्रिपथगां दिव्यां शिव तोयामशैवलाम् । ददर्श राघवो गङ्गां पुण्यामृषिनिसेविताम् ।।2.50.12।।
Meaning
आश्रमैरविदूरस्थैः श्रीमद्भिः समलङ्कृताम् । कालेऽप्सरोभिर्हृष्टाभिः सेविताम्भोह्रदां शिवाम् ।।2.50.13।।
Meaning
देवदानवगन्धर्वैः किन्नरैरुपशोभिताम् । नागगन्धर्वपत्नीभिः सेवितां सततं शिवाम् ।।2.50.14।।
Meaning
देवाक्रीडशताकीर्णां देवोद्यानशतायुताम् । देवार्थमाकाशगमां विख्यातां देवपद्मिनीम् ।।2.50.15।।
Meaning
जलघाताट्टहासोग्रां फेननिर्मलहासिनीम् । क्वचिद्वेणीकृतजलां क्वचिदावर्तशोभिताम् ।।2.50.16।।
Meaning
क्वचित्स्तिमितगम्भीरां क्वचिद्वेगजलाकुलाम् । क्वचिद्गम्भीरनिर्घोषां क्वचिद्भैरवनिस्वनाम् ।।2.50.17।।
Meaning
देवसङ्घाप्लुतजलां निर्मलोत्पलशोभिताम् । क्वचिदाभोगपुलिनां क्वचिन्निर्मलवालुकाम् ।।2.50.18।।
Meaning
हंससारससङ्घुष्टां चक्रवाकोपकूजिताम् । सदा मत्तैश्च विहगैरभिसन्नादितान्तराम् ।।2.50.19।।
Meaning
क्वचित्तीररुहैर्वृक्षैर्मालाभिरिव शोभिताम् । क्वचित्फुल्लोत्पलच्छन्नां क्वचित्पद्मवनाकुलाम् ।।2.50.20।।
Meaning