Sarga 71: Arrival at Ayodhyā
अयोध्यागमनम्
ayodhyāgamanam — word-by-word gloss for all 47 shlokas.
Jump to a shloka · 47 in this sarga
स प्राङ्मुखो राजगृहादभिनिर्याय वीर्यवान् । ततस्सुदामां द्युतिमान् सन्तीर्यावेक्ष्य तां नदीम् ।।2.71.1।।
Meaning
ह्लादिनीं दूरपारां च प्रत्यक्स्रोतस्तरङ्गिणीम् । शतद्रूमतरच्छ्रीमान् नदीमिक्ष्वाकुनन्दनः ।।2.71.2।।
Meaning
एलाधाने नदीं तीर्त्वा प्राप्य चापरपर्पटान् । शिलामाकुर्वतीं तीर्त्वा आग्नेयं शल्यकर्तनम् ।।2.71.3।।
Meaning
सत्यसन्धः शुचिः श्रीमान् प्रेक्षमाणः शिलावहाम् । अत्ययात् स महाशैलान् वनं चैत्ररथं प्रति ।।2.71.4।।
Meaning
सरस्वतीं च गङ्गां च युग्मेन प्रत्यपद्यत । उत्तरं वीरमत्स्यानां भारुण्डं प्राविशद्वनम् ।।2.71.5।।
Meaning
वेगिनीं च कुलिङ्गाख्यां ह्रादिनीं पर्वतावृताम् । यमुनां प्राप्य सन्तीर्णो बलमाश्वासयत्तदा ।।2.71.6।।
Meaning
शीतीकृत्य तु गात्राणि क्लान्तानाश्वास्य वाजिनः । तत्र स्नात्वा च पीत्वा च प्रायादादाय चोदकम् ।।2.71.7।।
Meaning
राजपुत्रः महारण्यमनभीक्ष्णोपसेवितम् । भद्रः भद्रेण यानेन मारुतः खमिवात्ययात् ।।2.71.8।।
Meaning
भागीरथीं दुष्प्रतरामंशुधाने महानदीम् । उपायाद्राघवस्तूर्णं प्राग्वटे विश्रुते पुरे ।।2.71.9।।
Meaning
स गङ्गां प्राग्वटे तीर्त्वा समायात्कुटिकोष्ठिकाम् । सबलस्तां स तीर्त्वाथ समायाद्धर्मवर्धनम् ।।2.71.10।।
Meaning