← Ayodhyā Kāṇḍa

Sarga 71: Arrival at Ayodhyā

अयोध्यागमनम्

ayodhyāgamanam — word-by-word gloss for all 47 shlokas.

Page 2 of 547 shlokas in this sarga (verified max-across-sources)
Shloka 71.11Word-by-word available

तोरणं दक्षिणार्धेन जम्बूप्रस्थमुपागमत् । वरूथं च ययौ रम्यं ग्रामं दशरथात्मजः ।।2.71.11।।

Meaning

Shloka 71.12Word-by-word available

तत्र रम्ये वने वासं कृत्वाऽसौ प्राङ्मुखो ययौ । उद्यानमुज्जिहानायाः प्रियका यत्र पादपाः ।।2.71.12।।

Meaning

Shloka 71.13Word-by-word available

सालांस्तु प्रियकान्प्राप्य शीघ्रानास्थाय वाजिनः । अनुज्ञाप्याथ भरतः वाहिनीं त्वरितः ययौ ।।2.71.13।।

Meaning

Shloka 71.14Word-by-word available

वासं कृत्वा सर्वतीर्थे तीर्त्वा चोत्तानकां नदीम् । अन्या नदीश्च विविधाः पार्वतीयैस्तुरङ्गमैः ।।2.71.14।।

Meaning

Shloka 71.15Word-by-word available

हस्तिपृष्ठकमासाद्य कुटिकामत्यवर्तत । ततार च नरव्याघ्रः लौहित्ये स कपीवतीम् ।।2.71.15।।

Meaning

Shloka 71.16Word-by-word available

व्यपायाद्राघवस्तूर्णं तीर्त्वा शोणां महानदीम् ।।2.71.16।।

Meaning

Shloka 71.17Word-by-word available

एकसाले स्थाणुमतीं विनते गोमतीं नदीम् । कलिङ्गनगरे चापि प्राप्य सालवनं तदा ।।2.71.17।।

Meaning

Shloka 71.18Word-by-word available

भरतः क्षिप्रमागच्छत् सुपरिश्रान्तवाहनः । वनं च समतीत्याशु शर्वर्यामरुणोदये ।।2.71.18।।

Meaning

Shloka 71.19Word-by-word available

अयोध्यां मनुना राज्ञा निर्मितां सन्ददर्श ह । तां पुरीं पुरुषव्याघ्रः सप्तरात्रोषितः पथि ।।2.71.19।।

Meaning

Shloka 71.20Word-by-word available

अयोध्यामग्रतर्दृष्ट्वा सारथिं वाक्यमब्रवीत् । एषा नातिप्रतीता मे पुण्योद्याना यशस्विनी ।।2.71.20।।

Meaning