← Ayodhyā Kāṇḍa

Sarga 71: Arrival at Ayodhyā

अयोध्यागमनम्

ayodhyāgamanam — word-by-word gloss for all 47 shlokas.

Page 3 of 547 shlokas in this sarga (verified max-across-sources)
Shloka 71.21Word-by-word available

अयोध्या दृश्यते दूरात् सारथे पाण्डुमृत्तिका । यज्वभिर्गुणसम्पन्नैः ब्राह्मणैः वेदपारगैः ।।2.71.21।।

Meaning

Shloka 71.22Word-by-word available

भूयिष्ठमृद्धैराकीर्णा राजर्षिपरिपालिता । अयोध्यायां पुरा शब्दः श्रूयते तुमुलो महान् ।।2.71.22।।

Meaning

Shloka 71.23Word-by-word available

समन्तान्नरनारीणां तमद्य न शृणोम्यहम् । उद्यानानि हि सायाह्ने क्रीडित्वोपरतैर्नरैः ।।2.71.23।।

Meaning

Shloka 71.24Word-by-word available

समन्ताद्विप्रधावद्भिः प्रकाशन्ते ममान्यदा । तान्यद्यानुरुदन्तीव परित्यक्तानि कामिभिः ।।2.71.24।।

Meaning

Shloka 71.25Word-by-word available

अरण्यभूतेव पुरी सारथे प्रतिभाति मे । न ह्यत्र यानैर्दृश्यन्ते न गजैर्न च वाजिभिः ।।2.71.25।।

Meaning

Shloka 71.26Word-by-word available

निर्यान्तः वाऽभियान्तः वा नरमुख्या यथापुरम् । उद्यानानि पुरा भान्ति मत्तप्रमुदितानि च ।।2.71.26।।

Meaning

Shloka 71.27Word-by-word available

जनानां रतिसंयोगेष्वत्यन्तगुणवन्ति च । तान्येतान्यद्य पश्यामि निरानन्दानि सर्वशः ।।2.71.27।।

Meaning

Shloka 71.28Word-by-word available

स्रस्तपर्णैरनुपथं विक्रोशद्भिरिव द्रुमैः । नाद्यापि श्रूयते शब्दो मत्तानां मृगपक्षिणाम् ।।2.71.28।।

Meaning

Shloka 71.29Word-by-word available

संरक्तां मधुरां वाणीं कलं व्याहरतां बहु । चन्दनागुरुसम्पृक्तो धूपसम्मूर्चितोऽतुलः ।।2.71.29।।

Meaning

Shloka 71.30Word-by-word available

प्रवाति पवनः श्रीमान् किं नु नाद्य यथापुरम् । भेरीमृदङ्गवीणानां कोणसङ्घट्टितः पुनः ।।2.71.30।।

Meaning