← Ayodhyā Kāṇḍa

Sarga 71: Arrival at Ayodhyā

अयोध्यागमनम्

ayodhyāgamanam — word-by-word gloss for all 47 shlokas.

Page 4 of 547 shlokas in this sarga (verified max-across-sources)
Shloka 71.31Word-by-word available

किमद्य शब्दो विरतः सदाऽदीनगतिः पुरा । अनिष्टानि च पापानि पश्यामि विविधानि च ।।2.71.31।।

Meaning

Shloka 71.32Word-by-word available

निमित्तान्यमनोज्ञानि तेन सीदति ते मनः । सर्वथा कुशलं सूत दुर्लभं मम बन्धुषु ।।2.71.32।।

Meaning

Shloka 71.33Word-by-word available

तथा ह्यसति सम्मोहे हृदयं सीदतीव मे । विषण्णः शान्तहृदयस्त्रस्तः संलुलितेन्द्रियः ।।2.71.33।।

Meaning

Shloka 71.34Word-by-word available

भरतः प्रविवेशाशु पुरीमिक्ष्वाकुपालिताम् । द्वारेण वैजयन्तेन प्राविशच्छ्रान्तवाहनः ।।2.71.34।।

Meaning

Shloka 71.35Word-by-word available

द्वास्थैरुत्थाय विजयं पृष्टस्तैः सहितो ययौ । स त्वनेकाग्रहृदयो द्वास्थं प्रत्यर्च्य तं जनम् ।।2.71.35।।

Meaning

Shloka 71.36Word-by-word available

सूतमश्वपतेः क्लान्तमब्रवीत्तत्र राघवः । किमहं त्वरयाऽनीतः कारणेन विनाऽनघ ।।2.71.36।।

Meaning

Shloka 71.37Word-by-word available

अशुभाशङ्कि हृदयं शीलं च पततीव मे । श्रुता नो यादृशाः पूर्वं नृपतीनां विनाशने ।।2.71.37।।

Meaning

Shloka 71.38Word-by-word available

आकारांस्तानहं सर्वान् इहपश्यामि सारथे । सम्मार्जनविहीनानि परुषाण्युपलक्षये ।।2.71.38।।

Meaning

Shloka 71.39Word-by-word available

असंयतकवाटानि श्रीविहीनानि सर्वशः । बलिकर्मविहीनानि धूपसम्मोदनेन च ।।2.71.39।।

Meaning

Shloka 71.40Word-by-word available

अनाशितकुटुम्बानि प्रभाहीनजनानि च । अलक्ष्मीकानि पश्यामि कुटुम्बिभवनान्यहम् ।।2.71.40।।

Meaning