Sarga 71: Arrival at Ayodhyā
अयोध्यागमनम्
ayodhyāgamanam — word-by-word gloss for all 47 shlokas.
Jump to a shloka · 47 in this sarga
अपेतमाल्यशोभान्यप्यसंमृष्टाजिराणि च । देवागाराणि शून्यानि न चाभान्ति यथापुरम् ।।2.71.41।।
Meaning
देवतार्चाः प्रविद्धाश्च यज्ञगोष्ठ्यस्तथाविधाः । माल्यापणेषु राजन्ते नाद्य पण्यानि वा तथा ।।2.71.42।।
Meaning
दृश्यन्ते वणिजोऽप्यद्य न यथापूर्वमत्र वै । ध्यानसंविग्नहृदयाः नष्टव्यापारयन्त्रिताः ।।2.71.43।।
Meaning
देवायतनचैत्येषुदीनाः पक्षिगणास्तथा । मलिनं चाश्रुपूर्णाक्षं दीनं ध्यानपरं कृशम् ।।2.71.44।।
Meaning
सस्त्रीपुंसं च पश्यामि जनमुत्कण्ठितं पुरे । इत्येवमुक्त्वा भरतः सूतं तं दीनमानसः । तान्यरिष्टान्ययोध्यायां प्रेक्ष्य राजगृहं ययौ ।।2.71.45।।
Meaning
तां शून्यशृङ्गाटकवेश्मरथ्याम् रजोऽरुणद्वारकवाटयन्त्राम् । दृष्ट्वा पुरीमिन्द्रपुरप्रकाशाम् दुःखेन सम्पूर्णतरः बभूव ।।2.71.46।।
Meaning
बहूनि पश्यन् मनसोऽप्रियाणि यान्यन्यदा नास्य पुरे बभूवुः । अवाक्छिरा दीनमना नहृष्टः पितुर्महात्मा प्रविवेश वेश्म ।।2.71.47।।
Meaning