Sarga 113: The Sandals Received
पादुकाग्रहणम्
pādukāgrahaṇam — word-by-word gloss for all 24 shlokas.
Jump to a shloka · 24 in this sarga
ततः शिरसि कृत्वा तु पादुके भरतस्तदा । आरुरोह रथं हृष्टः शत्रुघ्नेन समन्वितः ।।2.113.1।।
Meaning
वसिष्ठो वामदेवश्च जाबालिश्च दृढव्रतः । अग्रतः प्रययुः सर्वे मन्त्रिणो मन्त्रपूजिताः ।।2.113.2।।
Meaning
मन्दाकिनीं नदीं रम्यां प्राङ्ग्मुखास्ते ययुस्तदा । प्रदक्षिणं च कुर्वाणाश्चित्रकूटं महागिरिम् ।।2.113.3।।
Meaning
पश्यन् धातुसहस्राणि रम्याणि विविधानि च । प्रययौ तस्य पार्श्वेन ससैन्यो भरतस्तदा ।।2.113.4।।
Meaning
अदूराच्चित्रकूटस्य ददर्श भरतस्तदा । आश्रमं यत्र स मुनिर्भरद्वाजः कृतालयः ।।2.113.5।।
Meaning
स तमाश्रममागम्य भरद्वाजस्य बुद्धिमान् । अवतीर्य रथात् पादौ ववन्दे भरतस्तदा ।।2.113.6।।
Meaning
ततो हृष्टो भरद्वाजो भरतं वाक्यमब्रवीत् । अपि कृत्यं कृतं तात रामेण च समागतम् ।।2.113.7।।
Meaning
एवमुक्तः स तु ततो भरद्वाजेन धीमता । प्रत्युवाच भरद्वाजं भरतो भ्रातृवत्सलः ।।2.113.8।।
Meaning
स याच्यमानो गुरुणा मया च दृढविक्रमः । राघवः परमप्रीतो वसिष्ठं वाक्यमब्रवीत् ।।2.113.9।।
Meaning
पितुः प्रतिज्ञां तामेव पालयिष्यामि तत्त्वतः । चतुर्दश हि वर्षाणि या प्रतिज्ञा पितुर्मम ।।2.113.10।।
Meaning