Sarga 113: The Sandals Received
पादुकाग्रहणम्
pādukāgrahaṇam — word-by-word gloss for all 24 shlokas.
Jump to a shloka · 24 in this sarga
एवमुक्तो महाप्राज्ञो वसिष्ठः प्रत्युवाच ह । वाक्यज्ञो वाक्यकुशलं राघवं वचनं महत् ।।2.113.11।।
Meaning
एते प्रयच्छ संहृष्टः पादुके हेमभूषिते । अयोध्यायां महाप्राज्ञ योगक्षेमकरे तव ।।2.113.12।।
Meaning
एवमुक्तो वसिष्ठेन राघवः प्राङ्मुखः स्थितः । पादुके अधिरुह्यैते मम राज्याय वै ददौ ।।2.113.13।।
Meaning
निवृत्तोऽहमनुज्ञातो रामेण सुमहात्मना । अयोध्यामेव गच्छामि गृहीत्वा पादुके शुभे ।।2.113.14।।
Meaning
एतच्छ्रुत्वा शुभं वाक्यं भरतस्य महात्मनः । भरद्वाजः शुभतरं मुनिर्वाक्यमुवाच तम् ।।2.113.15।।
Meaning
नैतच्चित्रं नरव्याघ्र शीलवृत्तवतां वर । यदार्यं त्वयि तिष्ठेत्तु निम्ने सृष्टमिवोदकम् ।।2.113.16।।
Meaning
अमृतः स महाबाहुः पिता दशरथस्तव । यस्य त्वमीदृशः पुत्रो धर्मज्ञो धर्मवत्सलः ।।2.113.17।।
Meaning
तमृषिं तु महात्मानमुक्तवाक्यं कृताञ्जलिः । आमन्त्रयितुमारेभे चरणावुपगृह्य च ।।2.113.18।।
Meaning
ततः प्रदक्षिणं कृत्वा भरद्वाजं पुनःपुनः । भरतस्तु ययौ श्रीमानयोध्यां सह मन्त्रिभिः ।।2.113.19।।
Meaning
यानैश्च शकटैश्चैव हयैर्नागैश्च सा चमूः । पुनर्निवृत्ता विस्तीर्णा भरतस्यानुयायिनी ।।2.113.20।।
Meaning