Sarga 80: Preparing the Road
मार्गसंस्कारः
mārgasaṃskāraḥ — word-by-word gloss for all 22 shlokas.
Jump to a shloka · 22 in this sarga
अथ भूमिप्रदेशज्ञाः सूत्रकर्मविशारदाः । स्वकर्माभिरताः शूराः खनका यन्त्रकास्तथा ।।2.80.1।।
Meaning
कर्मान्तिकाः स्थपतयः पुरुषा यन्त्रकोविदाः । तथा वर्धकयश्चैव मार्गिणो वृक्षतक्षकाः ।।2.80.2।।
Meaning
कूपकाराः सुधाकाराः वंशकर्मकृतस्तथा । समर्था ये च द्रष्टारः पुरतस्ते प्रतस्थिरे ।।2.80.3।।
Meaning
स तु हर्षात्तमुद्देशं जनौघो विपुलः प्रयान् । अशोभत महावेगः समुद्र इव पर्वणि ।।2.80.4।।
Meaning
ते स्ववारं समास्थाय वर्त्मकर्मणि कोविदाः । करणैः विविधोपेतैः पुरस्तात्सम्प्रतस्थिरे ।।2.80.5।।
Meaning
लतावल्लीश्च गुल्मांश्च स्थाणूनश्मन एव च । जनास्ते चक्रिरे मार्गं छिन्दन्तः विविधान् द्रुमान् ।।2.80.6।।
Meaning
अवृक्षेषु च देशेषु केचिद्वृक्षानरोपयन् । केचित्कुठारैष्टङ्कैश्च दात्रैश्छिन्दन् क्वचित् क्वचित् ।।2.80.7।।
Meaning
अपरे वीरणस्तम्बान् बलिनो बलवत्तराः । विधमन्ति स्म दुर्गाणि स्थलानि च ततस्ततः ।।2.80.8।।
Meaning
अपरेऽपूरयन्कूपान् पांसुभिः श्वभ्रमायतम् । निम्नभागांस्ततः केचित् समांश्चक्रुः समन्ततः ।।2.80.9।।
Meaning
बबन्धुर्बन्धनीयांश्च क्षोद्यान् सञ्चुक्षुदुस्तदा । बिभिदुर्भेदनीयांश्च तांस्तान्देशान्नरास्तदा ।।2.80.10।।
Meaning