Sarga 80: Preparing the Road
मार्गसंस्कारः
mārgasaṃskāraḥ — word-by-word gloss for all 22 shlokas.
Jump to a shloka · 22 in this sarga
अचिरेणैव कालेन परिवाहान्बहूदकान् । चक्रुर्बहुविधाकारान् सागरप्रतिमान्बहून् ।।2.80.11।।
Meaning
निर्जलेषु च देशेषु खानयामासुरुत्तमान् । उदपानान्बहुविधान् वेदिकापरिमण्डितान् ।।2.80.12।।
Meaning
ससुधाकुट्टिमतलः प्रपुष्पितमहीरुहः । मत्तोद्घुष्टद्विजगणः पताकाभिरलङ्कृतः ।।2.80.13।।
Meaning
चन्दनोदकसंसिक्तो नाना कुसुमभूषितः । बह्वशोभत सेनायाः पन्थाः सुरपथोपमः ।।2.80.14।।
Meaning
आज्ञाप्याथ यथाज्ञप्ति युक्तास्तेऽधिकृता नराः । रमणीयेषु देशेषु बहुस्वादुफलेषु च ।।2.80.15।।
Meaning
यो निवेशस्त्वभिप्रेतः भरतस्य महात्मनः । भूयस्तं शोभयामासुः भूषाभिर्भूषणोपमम् ।।2.80.16।।
Meaning
नक्षत्रेषु प्रशस्तेषु मुहूर्तेषु च तद्विदः । निवेशान् स्थापयामासुर्भरतस्य महात्मनः ।।2.80.17।।
Meaning
बहुपांसुचयाश्चापि परिखापरिवारिताः । तन्त्रेन्द्रकीलप्रतिमाः प्रतोलीवरशोभिताः ।।2.80.18।।
Meaning
प्रासादमालावितताः सौधप्राकारसंवृताः । पताकाशोभिताः सर्वे सुनिर्मितमहापथाः ।।2.80.19।।
Meaning
विसर्पद्भिरिवाकाशे विटङ्काग्रविमानकैः । समुच्च्रितैर्निवेशास्ते बभुः शक्रपुरोपमाः ।।2.80.20।।
Meaning