Sarga 13: Daśaratha's Lament
दशरथविलापः
daśarathavilāpaḥ — word-by-word gloss for all 26 shlokas.
Jump to a shloka · 26 in this sarga
अतदर्हं महाराजं शयानमतथोचितम्। ययातिमिव पुण्यान्ते देवलोकात्परिच्युतम् ।।2.13.1।।
Meaning
अनर्थरूपा सिद्धार्था ह्यभीता भयदर्शिनी। पुनराकारयामास तमेव वरमङ्गना ।।2.13.2।।
Meaning
त्वं कत्थसे महाराज सत्यवादी दृढव्रतः। मम चेमं वरं कस्माद्विधारयितुमिच्छसि ।।2.13.3।।
Meaning
एवमुक्तस्तु कैकेय्या राजा दशरथस्तदा। प्रत्युवाच ततः क्रुद्धो मुहूर्तं विह्वलन्निव ।।2.13.4।।
Meaning
मृते मयि गते रामे वनं मनुजपुङ्गवे। हन्तानार्ये ममामित्रे सकामा सुखिनी भव ।।2.13.5।।
Meaning
स्वर्गेऽपि खलु रामस्य कुशलं दैवतैरहम्। प्रत्यादेशादभिहितं धारयिष्ये कथं बत ।।2.13.6।।
Meaning
कैकेय्याः प्रियकामेन रामः प्रव्राजितो मया। यदि सत्यं ब्रवीम्येतत्तदसत्यं भविष्यति ।।2.13.7।।
Meaning
अपुत्रेण मया पुत्रः श्रमेण महता महान्। रामो लब्धो महाबाहुः स कथं त्यज्यते मया ।।2.13.8।।
Meaning
शूरश्च कृतविद्यश्च जितक्रोधः क्षमापरः। कथं कमलपत्राक्षो मया रामो विवास्यते ।।2.13.9।।
Meaning
कथमिन्दीवरश्यामं दीर्घबाहुं महाबलम्। अभिराममहं रामं प्रेषयिष्यामि दण्डकान् ।।2.13.10।।
Meaning