Sarga 73: Bharata Condemns Kaikeyī
कैकेयीगर्हणम्
kaikeyīgarhaṇam — word-by-word gloss for all 28 shlokas.
Jump to a shloka · 28 in this sarga
श्रुत्वा तु पितरं वृत्तं भ्रातरौ च विवासितौ । भरतो दुःखसन्तप्तैदं वचनमब्रवीत् ।।2.73.1।।
Meaning
किं नु कार्यं हतस्येह मम राज्येन शोचतः । विहीनस्याथ पित्रा च भ्रात्रा पितृसमेन च ।।2.73.2।।
Meaning
दुःखे मे दुःखमकरोर्व्रणे क्षारमिवादधाः । राजानं प्रेतभावस्थं कृत्वा रामं च तापसम् ।।2.73.3।।
Meaning
कुलस्य त्वमभावाय कालरात्रिरिवागता । अङ्गारमुपगूह्य स्म पिता मे नावबुद्धवान् ।।2.73.4।।
Meaning
मृत्युमापादितो राजा त्वया मे पापदर्शिनि । सुखं परिहृतं मोहात्कुलेऽस्मिन् कुलपांसिनि ।।2.73.5।।
Meaning
त्वां प्राप्य हि पिता मेऽद्य सत्यसन्धो महायशाः । तीव्रदुःखाभिसन्तप्तो वृत्तो दशरथो नृपः ।।2.73.6।।
Meaning
विनाशितो महाराजः पिता मे धर्मवत्सलः । कस्मात्प्रव्राजितो रामः कस्मादेव वनं गतः ।।2.73.7।।
Meaning
कौसल्या च सुमित्रा च पुत्रशोकाभिपीडिते । दुष्करं यदि जीवेतां प्राप्य त्वां जननीं मम ।।2.73.8।।
Meaning
ननु त्वार्योऽपि धर्मात्मा त्वयि वृत्तिमनुत्तमाम् । वर्तते गुरुवृत्तिज्ञो यथा मातरि वर्तते ।।2.73.9।।
Meaning
तथा ज्येष्ठा हि मे माता कौसल्या दीर्घदर्शिनी । त्वयि धर्मं समास्थाय भगिन्यामिव वर्तते ।।2.73.10।।
Meaning