Sarga 51: Guha and Lakṣmaṇa Keep Watch

गुहलक्ष्मणजागरणम्

guhalakṣmaṇajāgaraṇam — word-by-word gloss for all 27 shlokas.

Jump to a shloka · 27 in this sarga

Page 1 of 327 shlokas in this sarga (verified max-across-sources)
Shloka 51.1Word-by-word available

तं जाग्रतमदम्भेन भ्रातुरर्थाय लक्ष्मणम् । गुहः सन्तापसन्तप्तो राघवं वाक्यमब्रवीत् ।।2.51.1।।

Meaning

Shloka 51.2Word-by-word available

इयं तात सुखा शय्या त्वदर्थमुपकल्पिता । प्रत्याश्वसिहि साध्वस्यां राजपुत्र यथासुखम् ।।2.51.2।।

Meaning

Shloka 51.3Word-by-word available

उचितोऽयं जनः सर्वः क्लेशानां त्वं सुखोचितः । गुप्त्यर्थं जागरिष्यामः काकुत्स्थस्य वयं निशाम् ।।2.51.3।।

Meaning

Shloka 51.4Word-by-word available

न हि रामात्प्रियतरो ममास्ति भुवि कश्चन । ब्रवीम्येतदहं सत्यं सत्येनैव च ते शपे ।।2.51.4।।

Meaning

Shloka 51.5Word-by-word available

अस्य प्रसादादाशंसे लोकेऽस्मिन्सुमहद्यशः । धर्मावाप्तिं च विपुलामर्थावाप्तिं च केवलाम् ।।2.51.5।।

Meaning

Shloka 51.6Word-by-word available

सोऽहं प्रियतमं रामं शयानं सह सीतया । रक्षिष्यामि धनुष्पाणिः सर्वतः ज्ञातिभिः सह ।।2.51.6।।

Meaning

Shloka 51.7Word-by-word available

न हि मेऽविदितं किञ्चिद्वनेऽस्मिंश्चरतः सदा । चतुरङ्गं ह्यपि बलं सुमहत्प्रसहेमहि ।।2.51.7।।

Meaning

Shloka 51.8Word-by-word available

लक्ष्मणस्तं तदोवाच रक्ष्यमाणास्त्वयाऽनघ । नात्र भीता वयं सर्वे धर्ममेवानुपश्यता ।।2.51.8।।

Meaning

Shloka 51.9Word-by-word available

कथं दाशरथौ भूमौ शयाने सह सीतया । शक्या निद्रा मया लब्धुं जीवितं वा सुखानि वा ।।2.51.9।।

Meaning

Shloka 51.10Word-by-word available

यो न देवासुरैः सर्वैः शक्यः प्रसहितुं युधि । तं पश्य सुखसंविष्टं तृणेषु सह सीतया ।।2.51.10।।

Meaning