Sarga 51: Guha and Lakṣmaṇa Keep Watch
गुहलक्ष्मणजागरणम्
guhalakṣmaṇajāgaraṇam — word-by-word gloss for all 27 shlokas.
Jump to a shloka · 27 in this sarga
यो मन्त्रतपसा लब्धो विविधैश्च परिश्रमैः । एको दशरथस्येष्टः पुत्रः सदृशलक्षणः ।।2.51.11।।
Meaning
अस्मिन्प्रव्राजिते राजा न चिरं वर्तयिष्यति । विधवा मेदिनी नूनं क्षिप्रमेव भविष्यति ।।2.51.12।।
Meaning
विनद्य सुमहानादं श्रमेणोपरताः स्त्रियः । निर्घोषोपरतं चातः मन्ये राजनिवेशनम् ।।2.51.13।।
Meaning
कौसल्या चैव राजा च तथैव जननी मम । नाशंसे यदि जीवन्ति सर्वे ते शर्वरीमिमाम् ।।2.51.14।।
Meaning
जीवेदपि हि मे माता शत्रुघ्नस्यान्ववेक्षया । तद्दुःखं यत्तु कौसल्या वीरसूर्विनशिष्यति ।।2.51.15।।
Meaning
अनुरक्तजनाकीर्णा सुखालोकप्रियावहा । राजव्यसनसंसृष्टा सा पुरी विनशिष्यति ।।2.51.16।।
Meaning
कथं पुत्रं महात्मानं ज्येष्ठं प्रियमपस्यतः । शरीरं धारयिष्यन्ति प्राणा राज्ञो महात्मनः ।।2.51.17।।
Meaning
विनष्टे नृपतौ पश्चात्कौसल्या विनशिष्यति । अनन्तरं च माताऽपि मम नाशमुपैष्यति ।।2.51.18।।
Meaning
अतिक्रान्तमतिक्रान्तमनवाप्य मनोरथम् । राज्ये राममनिक्षिप्य पिता मे विनशिष्यति ।।2.51.19।।
Meaning
सिद्धार्थाः पितरं वृत्तं तस्मिन्कालेऽप्युपस्थिते । प्रेतकार्येषु सर्वेषु संस्करिष्यन्ति भूमिपम् ।।2.51.20।।
Meaning