Sarga 51: Guha and Lakṣmaṇa Keep Watch
गुहलक्ष्मणजागरणम्
guhalakṣmaṇajāgaraṇam — word-by-word gloss for all 27 shlokas.
Jump to a shloka · 27 in this sarga
रम्यचत्वरसंस्थानां सुविभक्तमहापथाम् । हर्म्यप्रासादसम्पन्नां गणिकावरशोभिताम् ।।2.51.21।।
Meaning
रथाश्वगजसम्बाधां तूर्यनादविनादिताम् । सर्वकल्याणसम्पूर्णां हृष्टपुष्टजनाऽकुलाम् ।।2.51.22।।
Meaning
आरामोद्यानसम्पन्नां समाजोत्सवशालिनीम् । सुखिता विचरिष्यन्ति राजधानीं पितुर्मम ।।2.51.23।।
Meaning
अपि जीवेद्धशरथो वनवासात्पुनर्वयम् । प्रत्यागम्य महात्मानमपि पश्येम सुव्रतम् ।।2.51.24।।
Meaning
अपि सत्यप्रतिज्ञेन सार्धङ्कुशलिना वयम् । निवृत्तवनवासेऽस्मिन्नयोध्यां प्रविशेमहि ।।2.51.25।।
Meaning
परिदेवयमानस्य दुःखार्तस्य महात्मनः । तिष्ठतः राजपुत्रस्य शर्वरी साऽत्यवर्तत ।।2.51.26।।
Meaning
तथाहि सत्यं ब्रुवति प्रजाहिते । नरेन्द्रपुत्रे गुरुसौहृदाद्गुहः । मुमोच बाष्पं व्यसनाभिपीडितो । ज्वरातुरो नाग इव व्यथातुरः ।।2.51.27।।
Meaning