Sarga 67: The Plight of a Kingless Land
अराजकदुरवस्थावर्णनम्
arājakaduravasthāvarṇanam — word-by-word gloss for all 38 shlokas.
Jump to a shloka · 38 in this sarga
आक्रन्दितनिरानन्दा सास्रकण्ठजनाकुला । आयोध्यायामवतता सा व्यतीयाय शर्वरी ।।2.67.1।।
Meaning
व्यतीतायां तु शर्वर्यामादित्यस्योदये ततः । समेत्य राजकर्तारः सभामीयुर्द्विजातयः ।।2.67.2।।
Meaning
मार्कण्डेयोऽथ मौद्गल्यो वामदेवश्च काश्यपः । कात्ययनो गौतमश्च जाबालिश्च महायशाः ।।2.67.3।।
Meaning
एते द्विजाः सहामात्यैः पृथग्वाचमुदीरयन् । वसिष्ठमेवाभिमुखाः श्रेष्ठं राजपुरोहितम् ।।2.67.4।।
Meaning
अतीता शर्वरी दुःखं या नो वर्षशतोपमा । अस्मिन् पञ्चत्वमापन्ने पुत्रशोकेन पार्थिवे ।।2.67.5।।
Meaning
स्वर्गतश्च महाराजो रामश्चारण्यमाश्रितः । लक्ष्मणश्चापि तेजस्वी रामेणैव गतः सह ।।2.67.6।।
Meaning
उभौ भरतशत्रुघ्नौ केकयेषु परन्तपौ । पुरे राजगृहे रम्ये मातामहनिवेशने ।।2.67.7।।
Meaning
इक्ष्वाकूणामिहाद्यैव कश्चिद्राजा विधीयताम् । अराजकं हि नो राष्ट्रं न विनाशमवाप्नुयात् ।।2.67.8।।
Meaning
नाराजके जनपदे विद्युन्माली महास्वनः । अभिवर्षति पर्जन्यो महीं दिव्येन वारिणा ।।2.67.9।।
Meaning
नाराजके जनपदे बीजमुष्टिः प्रकीर्यते । नाराजके पितुः पुत्रः भार्या वा वर्तते वशे ।।2.67.10।।
Meaning