← Ayodhyā Kāṇḍa

Sarga 67: The Plight of a Kingless Land

अराजकदुरवस्थावर्णनम्

arājakaduravasthāvarṇanam — word-by-word gloss for all 38 shlokas.

Page 2 of 438 shlokas in this sarga (verified max-across-sources)
Shloka 67.11Word-by-word available

अराजके धनं नास्ति नास्ति भार्याऽप्यराजके । इदमत्याहितं चान्यत् कुतः सत्यमराजके ।।2.67.11।।

Meaning

Shloka 67.12Word-by-word available

नाराजके जनपदे कारयन्ति सभां नराः । उद्यानानि च रम्याणि हृष्टाः पुण्यगृहाणि च ।।2.67.12।।

Meaning

Shloka 67.13Word-by-word available

नाराजके जनपदे यज्ञशीला द्विजातयः । सत्राण्यन्वासते दान्ता ब्राह्मणाः संशितव्रताः ।।2.67.13।।

Meaning

Shloka 67.14Word-by-word available

नाराजके जनपदे महायज्ञेषु यज्वनः । ब्राह्मणा वसुसम्पन्ना विसृजन्त्याप्तदक्षिणाः ।।2.67.14।।

Meaning

Shloka 67.15Word-by-word available

नाराजके जनपदे प्रभूतनटनर्तकाः । उत्सवाश्च समाजाश्च वर्धन्ते राष्ट्रवर्धनाः ।।2.67.15।।

Meaning

Shloka 67.16Word-by-word available

नारजके जनपदे सिद्धार्था व्यवहारिणः । कथाभिरनुरज्यन्ते कथाशीलाः कथाप्रियैः ।।2.67.16।।

Meaning

Shloka 67.17Word-by-word available

नाराजके जनपदे उद्यानानि समागताः । सायाह्ने क्रीडितुं यान्ति कुमार्यो हेमभूषिताः ।।2.67.17।।

Meaning

Shloka 67.18Word-by-word available

नाराजके जनपदे वाहनैः शीघ्रगामिभिः । नरा निर्यान्त्यरण्यानि नारीभिः सह कामिनः ।।2.67.18।।

Meaning

Shloka 67.19Word-by-word available

नाराजके जनपदे धनवन्तः सुरक्षिताः । शेरते विवृतद्वाराः कृषिगोरक्षजीविनः ।।2.67.19।।

Meaning

Shloka 67.20Word-by-word available

नाराजके जनपदे बद्धघण्टाविषाणिनः । आटन्ति राजमार्गेषु कुञ्जरा षष्टिहायनाः ।।2.67.20।।

Meaning